________________
चन्द्रराजचरित्रम् - पञ्चमः परिच्छेदः
अबलाचातुर्यवर्णनम् ल्येन कुत्रचिदियं गन्तुकामेति प्रतीयते । एवं राजा चन्द्रो विविधं वितर्कं कुर्वन्नासीद् गुणावल्या लीलां निरीक्षितुं निद्रितं चात्मानं दर्शयितुं नेत्रे निमील्य निद्रामुद्रां जग्राह । तेन च राजा गाढनिद्रया शेत इति गुणावली मेने, तदानीं तूष्णीमुत्थाय मन्दिरान्निरगच्छद्राजाऽपि यान्त्यामेव तस्यां शीघ्रमुत्थायोपविश्य करेण करवालमाकृष्य गुणावल्या अनुगमनक्रमेण चचाल | तमस्विन्यामपि गुणावली निर्भीकाऽऽसीत्ततस्तस्याः किमपि नृपोदन्तमवगतं नाभूत् । तत्र च वीरमती चिरात्तस्याः प्रतीक्षां कुर्वती तामायान्तीमवलोक्य प्रसन्ना बभूव, वृष्टिसृष्ट्यर्थं च स्वविद्यां प्रशशंस । गुणावल्यपि तस्याश्चमत्कृतिं प्रशंसन्त्युवाच- पूज्यमातः ! श्रीमत्या आदेशानुसारं पतिदेवं प्रस्वाप्यागताऽस्मीदानीं यत्कर्तव्यं तत्करोतु । तस्य जागरणात्पूर्वमेव ततः परावृत्यागच्छेयमितीच्छामि, यथेदं रहस्य तस्य विदितं न भवेत् । इतश्च राजा चन्द्रस्तिष्ठन् सर्वं च वृत्तान्तं पश्यन्नासीत्तस्मिन्नेव समये वीरमत्योचे- प्रियवधु ! त्वमुद्यानात्करवीरवृक्षस्यैकां यष्टिमानय तामभिमन्त्रितां कृत्वा ददामि । तया शयानं पतिं त्रिः स्प्रक्ष्यसि, तदा स प्रातर्यावदपनिद्रो न भविष्यति। धश्रूवचनं श्रुत्वा गुणावली तदानीमेवोद्यानाद्यष्टिमानिनाय, तत्र तस्याः संकोचो भयं च न बभूव, सा शीघ्रं यष्टिमानीय वीरमत्याः करे न्यदधात् । राजा सर्वं वागजालं शृण्वन्नेव झटिति स्वमन्दिरमागत्य शय्यायां मनुष्याकृतिमिव वस्त्रैराच्छाद्य स्वयं च निभृते विवेश, यथा गुणावली तं न पश्येद्यथास्थानं शयानं च जानीयात्। वीरमती करवीरयष्टिमभिमन्य गुणावल्यै ददानोवाच- प्रियस्नुषे!
|| ५२ ||