________________
चन्द्रराजचरित्रम् पञ्चमः परिच्छेदः
अबलाचातुर्यवर्णनम् पत्युस्त्वया मनागपि न भेतव्यम्, हृदये साहसं धेहि, मम कथितं शीघ्रतरमेव कृत्वाऽऽगच्छ । वीरमत्यादेशानुरूपं तां यष्टिं गृहीत्वा गुणावली स्वहर्म्यमियाय । पादध्वनिं निशम्य यष्टिस्पर्शेन वा पतिर्न जागर्यादिति शङ्कमाना गुणावली परितो विलोकयन्ती सावधानतया मन्दं मन्दं शयनगृहं प्रविवेश । शय्यामभिविलोकनेन महाराजो यथापूर्वं शयानोऽस्तीति प्रतीयाय, अतः सा यष्ट्या वारत्रयं स्पृशन्ती तदानीमेव ततः पश्चादैत् । राजा चन्द्रोऽपि तस्याश्चरित्रं पश्यन्नस्यां वीरमत्या हस्तस्फालनं कृतं तस्या आदेशानुकूलं गुणावली सर्वं कार्यं करोतीति चामन्यत । पुनरसौ वीरमत्याः सकाशमावव्राज समवसृतायामेव तस्यां राजाऽपि तामनुससार । सा तु वीरमत्याः सद्म व्रजन्त्यासीत्ततः स द्वारदेश एव तिष्ठन् तयोर्वार्तां श्रोतुमलगत् । गुणावली च तां यष्टिं वीरमत्यै समर्पयन्त्यकथयत्-मातः ! एतत्कार्यं तु कृत्वाऽहमागता पतिदेवाच्च निःशङ्काऽभूवम्, किन्तु सम्प्रति नागरिकाणां साध्वसस्तु वर्तत एव । यदि तेभ्यः केनचिद वयमवलोक्येमहि, कथञ्चिद् वा राज्ञः कर्णेऽयमुदन्तः पतेत्तदाऽवश्यं मेऽनिष्टं भविष्यति, अतस्तदर्थमप्युपायो भवेदवश्यं करोतु । वीरमत्युवाच - प्रियवधु ! त्वं नितरां भ्रान्ताऽसि त्वमित्थं पदे पदे कथं बिभेषि ? मम जीवनमेवं कुर्वदेव व्यतीयाय । अधुना तथा करोमि, यथा मन्दिराद् बहिर्ये सन्ति, ते सर्वे प्रातर्यावद् गाढनिद्रायां निमग्ना भवेयुः । एतदाकर्ण्य राजा चन्द्रो भयभीततरोऽभवत् परन्तु क्षणान्तर एव भयनिवृत्तोऽप्यभूत्, यस्मादेतन्मन्दिरबहिर्भूता एव निद्रिता भविष्यन्तीति वीरमती कथनमासीत्, स तु मन्दिराभ्यन्तर एवाऽतिष्ठत्ततो राजनि
।। ५३ ।।