________________
चन्द्रराजचरित्रम् - पञ्चमः परिच्छेदः
अबलाचातुर्यवर्णनम् प्रिये ! अनया वृष्ट्या वातेन चाऽद्य समयात्पूर्वमेव समाया विसर्जन कर्तुमभवत्, तस्मादेव कारणात्स्वास्थ्यमपि समीचीनं नास्ति । राज्ञो वचनं श्रुत्वा गुणावली सत्वरमेव सुकोमलां शय्यां कृतवती, शीतनिवृत्त्यर्थं राजा श्रवणे बद्ध्वा तस्यां विश्रामं कर्तुमलगत् । गुणावली च तेन कस्तूर्यादिमिश्रितं ताम्बूलमखादयन्नानाविधानासवानपाययत्, नारायणादिकं तैलं चाऽमर्दयत्तेन शीघ्रमेव राजा शीतरहितोऽभूत् ।
अथ गुणावलीकृतपादसंवाहनादिमिर्लब्धस्वास्थ्यो नृपो निद्राकल्पमाप | गुणावल्याश्चेतस्तु दोलायमानमिवासीदेव, ततः क्षणं विरामं विरामं पश्यन्त्यप्यासीत्, यदयं शेते जागर्ति वा, इत्थं शनैः शनैः सन्ध्याऽपि समागता । गुणावली सम्प्रत्यप्यस्थिरतयेतस्ततोऽवलोकयन्त्यस्ति, परं राज्ञः सन्ध्यावेलायां निद्रा कुतः? गुणावली तथा विलोक्य संशयमगमत्तेन स जाग्रदपि नेत्रयोर्मीलनेन निद्रित इवाऽलक्ष्यत, स च मनसि विचारयामास-सुशीलापीयं दुःशीलायते केनचित्कारणेनात्र भवितव्यम् । कुसङ्गेन भ्रष्टेयमिति प्रतिभाति, कुसङ्गात् को भ्रष्टो न भवति ? | उक्तमपि - कुसङ्गतेः कुबुद्धिः स्यात्, कुबुद्धेः कुप्रवर्तनम् । कुप्रवृत्तेर्भवेज्जन्तु-र्भाजनं दुःखसन्ततः
॥१॥ अतोऽन्यस्याऽपि प्रेमणि निबद्धा भवेदिति संभवोऽस्ति, यतः कुसङ्गाद्योषितामीदृश्येवावस्था भवति । गुणावल्याश्चेतस्यपि कुमत्युद्गमेन सा व्यभिचारिणी भवेदतः किं चित्रम् ? अस्याश्चाप
|| ५१ ||