________________
चन्द्रराजचरित्रम् - पञ्चमः परिच्छेदः
अबलाचातुर्यवर्णनम् विचारयामास-मातरि तथ्यमीदृशी विद्या भविष्यति न वेति ? सा तु महतीं वार्ता करोति, परं तस्यां मे विश्वासो न भवति । अस्तु, पतिदेवो यदद्य राजसभातः शीघ्रमेवागच्छेत्तदा तस्या वचनं तथ्यमेव भवितुमर्हति ।
इतो गुणावलीत्थं तर्कवितर्क कुर्वत्येवासीत्तावद् गृहोपविष्टा वीरमती काञ्चिद्विद्यां साधयितुं लग्ना । द्रुतमेव तस्याः साधनेन कश्चिद्देवः प्रादुर्भूय तामुवाच-किमर्थं ममाराधनां करोषि ? वीरमती प्रोवाच- हे देव ! निष्प्रयोजनं कष्टं नाऽददाम् । अहमिच्छामि, यदद्यैव भवांस्तथोपायं करोतु, यथा मे पुत्रो निर्धारितसमयात्पूर्वमेव दिवसे राजसभातः समागच्छेत् । एतन्निशम्य देवोऽगादीत्-एतदर्थमेव त्वयाऽहमाकारितः ? मदर्थमेतत्कार्यं दुष्करं नास्ति । सम्प्रत्येव तथोपायं करोमि, येन तव सुतः सभां विसृज्याऽविलम्बितमेवागमिष्यति । एवं कथयन्नेव स देवस्तत्क्षणमेव वर्षर्तुमिव समयमकरोत्तस्मिन् समयेऽन्तरिक्षे श्यामीभूताऽभ्रघटा वितेने । कानने बर्हिणा नृत्यन्तः केकामकार्षवृक्षं प्राप्य लतेव व्योम्नि विद्युत्प्रससार सहैव स्तनितेन मुसलधारा वृष्टि: पपात | तेन च सर्वदिक्षु ध्वान्तो व्यानशे । सर्वे स्वगृहगमनायाऽधीरा अभूवन, राजा चन्द्रोऽपि दुर्दिनं निरीक्ष्य शीघ्रमेव समिति विससर्ज । अनस्तमित एव भानौ गुणावलीमन्दिरमाजगाम, तेन कारणेन गुणावली परमाश्चर्यमियाय, सा च वीरमत्याः कथनेऽतीव श्रद्धावती बभूव । पतिदेवं निरीक्ष्य बद्धाञ्जलिर्गुणावली चचक्षे- प्राणनाथ ! अद्य शीघ्रमेवाऽऽयान्तं श्रीमन्तं विलोक्य मे परमानन्दो भवन्नस्ति । किन्त्वौदासीन्यं कथं लक्ष्यते ? अस्ति सौमनस्यं किम् ? राजा चन्द्रोऽगदत्
|| ५०॥