________________
चन्द्रराजचरित्रम् - पञ्चमः परिच्छेदः
अबलाचातुर्यवर्णनम् मिच्छसि तर्हि अहमुद्यताऽस्मि । धश्रुगुणोपेता भवती मत्कृते देवीस्वरूपाऽस्ति । यत:अन्तः स्नेहादशनवसनस्नानताम्बूलयेषैः, संपीणन्ती दुहितरमिव प्रेक्षते या यधूटीम् । भक्तिग्राह्या मधुरवचना पुत्रिशिक्षासु दक्षा, श्वश्रूरेयं गुणगणयुता प्राप्यते पुण्ययोगात्।
श्रीमत्या आज्ञोल्लङ्घनं स्वप्नेऽपि नाहं करिष्यामि । यद्यचैव मां तत्र नेतुमिच्छसि, तर्हि तत्राऽपि न मे काऽप्यनुपपत्तिरस्ति । यदा नर्तनं स्वीकृतमेव तदाऽवगुण्ठनं किमर्थम् ? परं प्रथमं केनचिन्मन्त्रेण स्वपुत्रमेव वशीकरोतु, यथा स काञ्चिद् बाधां न कुर्यान्मय्यप्यप्रसन्नो न च भवेत् । गुणावल्या एतद् वचनं श्रुत्वा वीरमती मनसि निश्चिक्ये, यदियमिदानीं सर्वथा मम जाले बद्धाऽभवदिति । साऽभाणीत- वधु ! मत्समीपेऽवस्वापिनीनाम्नी विद्या वर्तते यया नगरस्थान सर्वानपि प्राणिनो जडानिव विधातुं शक्नोमि, का वार्ता चन्द्रस्य वशीकरणे ? तस्य भयं तु त्वया सर्वथा मानसा-निःसार्यमेव । अस्तु, यदहं कथयामि तच्छृणु-अद्यैव यदि ते दर्शनेच्छा भवेत्तदा तदर्थमप्यहं प्रसक्ताऽस्मि । इतोऽष्टादशशतयोजनदूरे विमलापुरीनाम्नी नगर्यस्ति, तत्र महाप्रतापी मकरध्वजनामा नृपती राज्यं शास्ति । तस्य प्रेमलालच्छीनाम्नी परमलावण्यवती तनयाऽस्ति, तया सह सिंहलपुरस्य कनकध्वजनाम्नो राजकुमारस्य परिणयोऽद्यैव रात्रौ भविष्यति, यस्य दर्शनीयतरो महोत्सवो भविष्यति, अतो यदि ते दर्शनेच्छा वर्तते तर्हि वयं
|| ४८।।