________________
चन्द्रराजचरित्रम् - पञ्चमः परिच्छेदः
अबलाचातुर्यवर्णनम् संसारकौतुकस्य दर्शनेच्छा यदि ते वरीवर्ति, तर्हि त्वया चन्द्रकुमारस्य भयं सर्वथा मनसा त्याज्यम् । त्वं त्ववगच्छस्येव यन्मय्यनेका दैवीविद्या वर्तन्ते तासां प्रभावात्तवाऽखिलामिच्छां पूरयितुं समर्थाऽस्मि। आकाशगामिन्या विद्यया वयं रात्रावेवातिदूरं गत्वा ततः प्रातरनुत्थित एव जने कौतुकं दृष्ट्वाऽऽगन्तुं समर्थाः स्मः । आवयोरेव विचारितां चन्द्रस्त्वेतां वार्ता ज्ञास्यत्येव नहि ।
यत:
षट्कर्णो भिद्यते मन्त्र,-श्चतुष्कर्णस्तु धार्यते । द्विकर्णस्य तु मत्रस्य, ब्रह्माप्यन्तं न गच्छति ॥५८॥
यदि कदाचिज्ज्ञास्यत्यपि तदा भयस्य कारणं नास्ति यतो मशकानां भयात्कोऽपि गृहं त्यजति ? ततो निश्चिन्तं त्वया स्थातव्यम् । वीरमत्या जल्पनमाकर्ण्य गुणावली प्रससाद तस्याः साहाय्येन नवं नवं कौतुकं देशादिकं चावलोकितुं शक्ष्यामीति तदानीं गुणावली विश्वस्ता बभूव । एतत्कार्यमनुचितमिति जानत्यपि चन्द्रकुमारो मां बाधितुं नाऽलं भविष्यतीत्यपि सा मनसि निरदीधरत्।
यतः
अनृतं साहसं माया, मूर्खत्वमतिलोभता । निःस्नेहत्वनिर्दयत्वे, स्त्रीणां दोषाः स्वभावजाः ॥९॥
__ अतः क्षणं विचार्य सा वीरमती जगाद-पूज्यमातः ! अहं तु यथास्थाने यथोचितकार्यकर्तव्यतत्परायां श्रीमत्यामेव निर्भराऽस्मि । भवती यावन्मम रक्षणाय जागरुकाऽस्ति तावत्केभ्योऽपि साध्वसस्य मय्यवकाशो नास्ति । यदि च मां कौतुकं दर्शयितु
|| ४७ ॥