________________
चन्द्रराजचरित्रम् - पञ्चमः परिच्छेदः
अबलाचातुर्यवर्णनम् सर्पमपि वशीकत्तुं, महानदीमपि ततुं, केशरिणमपि हन्तुं, पुंभिर्दुष्करामपि क्रीडां कर्तुं पारयन्ति । यतःसंमोहयन्ति मदयन्ति विडम्बयन्ति, निर्भर्त्सयन्ति रमयन्ति विषादयन्ति । एताः प्रविश्य सदयं हृदयं नराणां, । किं नाम वामनयना न समाचरन्ति ?
॥५५॥ प्रसन्ना वनिता कल्पलतेवाऽन्यथा विषवल्लरी समा भवति, सा तु कोशावेश्यासूरिकान्तादिवज्ज्ञेया । यतःरक्ता हरन्ति सर्वस्यं, प्राणानपि विरागतः । अहो ! रागविरागाभ्यां, कष्टं कष्टा हि योषितः ॥५६॥
अत्रेदं तात्पर्यम्-यत्त्रीजातावपरिमिता शक्तिः क्षमा च विद्यते । अस्यां स्थितौ तासां पुरुषाद् भयस्य कारणं नास्ति, या स्त्री स्वपतेर्बिभेति, तस्याः कृत्स्नं जीवनं निष्फलं याति । स्त्रीभ्यः कापि शिक्षा दातव्या न भवति । यतःउशना वेद यच्छास्त्रं, यच्च वेद बृहस्पतिः ।। स्वभावेनैव तच्छास्त्रं, स्त्रीबुद्धौ सुप्रतिष्ठितम् ॥५७॥
पुनस्तासु तु सकलाः शक्तयः स्वयमेवोत्पद्यन्ते । शिखिनामण्डेषु चित्रकार्य कः करोति? गजकुम्भभेदनं मृगेन्द्रं कः शिक्षयति? किन्तु जातिप्रभवो गुणः स्वयमेव जअन्यते । तस्मादयि वधु !
।। ४६ ।।