________________
चन्द्रराजचरित्रम - पञ्चमः परिच्छेदः
अबलाचातुर्यवर्णनम्
अथ श्रीचन्द्रराजसंस्कृतचरित्रस्य पञ्चमपरिच्छेदेऽबलाचातुर्यवर्णनम्
अथ गतेषु कतिचिद्दिनेष्ववसरं ज्ञात्वा वीरमती पुनर्गुणावल्याः समीपमागता । अस्मिन्नवसरे भूमिकाया वाक्प्रपञ्चस्य प्रयोजनमेव नासीदित्यन्योन्यं मन्दं मन्दं वार्ता कर्तुं प्रवृत्ताऽभूत् । गुणावलीं स्वकपटजाले पातयन्ती वीरमती जगाद- अयि मुग्धे! पुंभिर्दुःसाध्यमपि कार्य स्त्रियः कर्तुं प्रभवन्ति । अतस्तासां मोहपाशेऽज्ञानिनो ज्ञानिनो वा सर्वेऽपि बध्यन्ते । यतःसंसारे हतविधिना, महिलारूपेण मण्डितः पाशः । बध्यन्ते जानाना, अजानाना अपि बध्यन्ते
॥५३॥ हरिहरादयोऽपि स्त्रीणां वशमीयुः । जितेन्द्रियाणामपि मुनीनां तपः स्त्रिय एव प्रभंशयांचक्रुः, समये च दुष्कार्यमपि कृत्वाऽदीदर्शन, यद् दृष्ट्वा पुमांसोऽपि स्वपराजयं मेनिरे । कैः स्त्रियाश्चरित्रं ज्ञातुं शक्यते ? अपि तु कैरपि नैव । यतःअथप्लुतं माधवगर्जितं च, स्त्रीणां चरित्रं भवितव्यतां च । अवर्षणं चापि सवर्षणं च, देवा न जानन्ति कुतो मनुष्याः॥५४॥
संसारे तादृशाः स्तोका एव पुरुषाः सन्ति ये स्त्रीभिर्जिता न भवेयुः । योषितः खलु स्वेच्छानुकूलं विषममपि गिरिमारोहूँ,
।। ४५ ॥