________________
चन्द्रराजचरित्रम् - चतुर्थः परिच्छेदः
वलोकनेन विना मानवजनेः साफल्यनैष्फल्ययोर्विवेकस्ते कथं भवितुमर्हति ? यो निरन्तरं जगति नूतनं नूतनं तीर्थं नवं नवं पर्वतं नगरं कुण्डं नृपवधूः विनोदं गानं वाद्यं देशानां चरित्रं च दृष्टवाँस्तस्यैव जीवनं सफलमस्ति । अस्यां भूमावश्वमुखो हयकर्णोकर्ण एकपाद् गूढदन्तः, शुद्धदन्तश्चानेकप्रकारा मानवा भवन्ति । परन्त्ववलोकनमृते तेषां रहस्यमवगन्तुं समर्था त्वं कथं भवेः ? तव च भोजनं पानं वस्त्राभरणयोर्धारणमेव सर्वसारमस्ति । स्त्रियः खलु स्वभावचतुरा भवन्ति, किन्तु त्वयि तस्यात्यन्ताभावो विद्यते, अतस्त्वां स्त्रीजातेर्बहिरहं मन्ये । त्वत्तः पतङ्ग एव वरो यो वियत्युड्डीय नित्यमभिनवमभिनवं कौतुकमवलोकते । यथा क्षुधितः गुडं प्राप्य सुधाप्राप्तिरिव मोदते, तथा त्वमपि चन्द्रं पतिं प्राप्य सुस्थिरंमन्याऽभूः । अन्येषु विषयेषु तव ध्यानमेव नास्ति । राजभवनोपविष्टायास्ते बाह्यवृत्तान्तः कथं ज्ञातो भवेत् । पश्य - यो देशाटनं करोति वेतस्ततो भ्रमति तस्य शरीरव्यवस्था त्वन्यैव भवति, अतो विश्वस्मिन् स केनाऽपि वञ्चयितुं न शक्यते । गृहे तिष्ठन् स्वगुणवर्णनं महत्तरवृत्तान्तकथनं च निष्फलमेवास्ति ।
यतः
गुणावलीवीरमत्योर्वार्ता
निजगुणगरिमा सुखावहः स्यात्, स्वयमुपवर्णयतां सतां न तादृक् । निजकरकमलेन कामिनीनां, कुचकलशाकलनेन को विनोदः ? ॥५१॥
अतस्तन्न सत्सु शोभते - पुनरेतादृशजनस्यादरो बहिर्न भवति। वस्तुतः स एवादरणीयो गुणी शूरो वीरः पण्डितश्च योऽन्यदेशेऽपि पूज्यते । यथाऽर्थादि दानेनैव सार्थक्यं व्रजति, तथा देशान्तरभ्रमणेन तत्रत्यनूतनकौतूकावलोकनेन च जीवनं सार्थक्य
।। ४२ ।।