________________
चन्द्रराजचरित्रम् - चतुर्थः परिच्छेदः
गुणावलीवीरमत्योर्वार्ता मेति, परं त्वयैतत्किञ्चिदपि करणीयं नास्ति । जाने तवापि जननं विविक्ते वने विकासिपुष्पाणामिव निरर्थकमेव भविष्यति । वीरमत्याः स्निग्धमेतदुक्तं श्रुत्वा गुणावली भ्रमजाले पतिता सती स्वचित्ते विचारयामास-यथार्थं मेऽवस्था कूपमण्डूकवदेवाऽस्ति। संसारे कुत्र किं भवति तस्य मे को बोधोऽस्ति ? परन्तु राज्ञो महिषी भूत्वेतः प्रासादान्निर्गमनं कदापि संभवति किम् ? एवं शोचन्ती निजगाद-पूज्यमातः ! श्रीमत्याः कथनं सर्वं तथ्यमस्ति भ्रमणाददृष्टदर्शनं ज्ञानवृद्धिश्च भवतीत्यहं जानामि, परं मदर्थ हाद्बहिर्गमनं कदाचिदपि कथमपि भाव्यमस्ति ? अभिलषितेऽपि कुत्राऽपि बहिर्गन्तुं नार्हाऽस्मि । स्वतन्त्रा निरङ्कुशाश्चैव स्त्रियः स्वेच्छाचारिण्यो भवितुमर्हन्ति । संसारेऽदृष्टापूर्वकौतुकस्याऽश्रुताऽपूर्ववृत्तान्तस्य दर्शनेच्छा श्रवणेच्छा च महती वर्तते, परं ममावस्था तेषां मयूराणामिवाऽस्ति, ये नृत्यन्तः स्वपिच्छानि दृष्ट्वाऽऽनन्दभरं स्वात्मनि मातुं न शक्नुवन्ति, परन्तु तेषां दृष्टिर्यदा स्वचरणोपरि पतति तदा कुरूपं तं विलोक्योदासते । एकस्य राज्ञः पट्टराज्ञी भूत्वा यत्र में सर्वं सुखमस्ति, तत्र हाद् बहिः क्रमणं नेति दुःखमपि महद् बोभवीति । पतिदेवमविज्ञाप्य गन्तुं पारयामि, परन्तु तन्न परिणामरमणीयम्, यदि स रुष्येत् तदा मे का गतिर्भवेत्? तस्य वञ्चनं नाहमनुमोदे | नान्यः कोऽप्यवगच्छतु, परं सूर्यचन्द्रादयस्तु साक्षिणो भवन्त्येव । यतःआदित्यचन्द्रावनिलोऽनलञ्च, द्यौर्भूमिरापो हृदयं यमश्च । अहश्च रात्रिश्च उभे च सन्ध्ये, सर्वं हि जानाति नरस्य वृतम्॥५२॥
।। ४३ ॥