________________
चन्द्रराजचरित्रम् - चतुर्थः परिच्छेदः
गुणावलीवीरमत्योर्वार्ता तिलतैलमेव मिष्टं, येन न दृष्टं घृतं क्यापि
नागरिकाणां वेषविलासादिकं वन्या जनाः कथं ज्ञातुं कर्तुं वा शक्नुवन्ति । यस्य कम्बलमेव प्रावरणमस्ति, तेन कौशेयनीसारस्य सुखं ज्ञातुं कथं शक्यते ? अदृष्टप्रासादः कुटीमेव समीचीनां बुध्यते । तैलकारस्य वृषभो विश्वस्योदन्तं ज्ञातुं समर्थो नैव भवति । त्वमपि तथान्तःपुरप्रासादस्य ततोऽधिकं नगरस्य वा वृत्तमधिगन्तुमर्हसि ततो बहिः कुत्र किमस्तीत्येतस्य विषयस्य किं ते ज्ञानमस्ति? परन्त्वेतस्मिञ्जगति यानवलोक्य मनसिजस्यापि शिरो नम्रतां व्रजति, तथाभूताः पुरुषा इतरेतरस्पर्धिनस्तिष्ठन्ति। प्रासादकोणे उपविशन्त्या त्वया तत् कथं ज्ञातव्यं भवेत् ? गुणावली स्तोकं प्रसन्ना भूत्वोवाच- मातः ! कथमप्येवं न वक्तव्यं त्वया यतः सत्स्वपि तारकेषु चन्द्र एव यामिनी भूषयति, जम्बूका बहवो भवन्ति, सिंहस्त्वेक एव भवति विद्यमानेष्वपि बहुमृगेषु कस्तूरिका विरलेष्वेवोपलभ्यते । क्व ते प्रियपुत्रश्चन्द्रः, क्व चान्ये पुरुषाः ?, अहं त्वन्यान् तस्य नखतुल्यानपि न गणयामि, यस्य द्वारदेशे गजा भ्रमन्ति, तेन गर्दभो द्रष्टव्यः किम् ? कल्पवृक्षस्यागे एरण्डवृक्षान् के स्तुवन्ति ? श्रीमत्याः पुत्रं पतित्वेन लब्ध्वा मम जीवनं सफलमभूत्स एव मम सर्वस्वः, स एवेश्वरः कामदेवश्चास्ति । यतःदधि मधुरं मधु मधुरं, द्राक्षा मधुरा सितापि मधुरैव । तस्य तदेव हि मधुरं, यस्य मनो यत्र संलग्नम् ॥४८॥
किमेतत्कथनं श्रीमत्या न श्रुतं ? पुर उपगतमेव वस्तु
|| ४० ।।