________________
चन्द्रराजचरित्रम् - चतुर्थः परिच्छेदः
गुणावलीवीरमत्योर्वार्ता वेत्सि, त्वयि चातुर्यस्य लेशमात्रमपि नास्ति । एकत्र चत्वारो वेदा अपरत्र चातुर्यमुभयोः साम्यं भवति, एष एव महतामपि विदुषां सिद्धान्तो न तु ममैव । त्वमात्मानं चतुरां ज्ञातवत्यासीत्, यदहं निपुणाऽस्मीति, परं तव वचनादेव नैपुण्यं विदितमभूत, यत्त्वं पशुभ्योऽपि निकृष्टासि । वीरमतीवचनं निशम्य विचारसागरे निमगा गुणावली मनसि चिन्तयामास-किं मया किमप्यनुचितं कृतमथवा किमकार्यं कृतं ? येन पूज्यमातैवं कथयति । ततो बद्धाञ्जलिः सोवाच- मातः ! मया कृतो यः कोऽप्यपराधस्त्वया क्षन्तव्यः । किन्तवेतन्नाऽहमज्ञासिषं, यदद्य भवत्या कथमेवमुच्यते? गुरूणां समक्षे बालाः सदैवानभिज्ञा एव भवन्ति । अनया दृष्ट्या भवती मां मुग्धामनभिज्ञां वा जानातु नाम, अन्यथाहं स्वजीवनं निन्दितं न मन्ये । श्रीमत्याः प्रसादाद् यथा मे पतिदेवोऽस्ति, तादृशः संसारे नान्यः कश्चित् पुरुषो दृष्टिगोचरो भवति । ऐश्वर्यस्य सुखसम्पत्तेश्चापि मम गृहे हासो नास्ति । अस्यामवस्थायामपि श्रीमती मां पशुभ्योऽप्यूनां कथमवैति ? गाम्भीर्यपरिपूर्णा वीरमती कथयति स्म-पुत्रवधु ! त्वं स्वपतौ किं गर्वं दधासि, स वराकः कस्यां गणनायामस्ति ? यदि त्वमन्यं पुरुषं पश्येस्तदा जानीयाः किन्तु कूपमण्डूकैरब्धेर्वृत्तान्तं नपुंसकेन वा रतिस्वरूपं कथं ज्ञातुं शक्यते ? येन द्राक्षा न भक्षिता तस्य निम्बफलमेव मधुरं भवति। येन सज्ज्ञानेनात्मतत्त्वं नैव विदितं तेन विनवरं सांसारिकसुखमेवोत्कृष्टं मन्यते । यतः - अविदितपरमानन्दो वदति जनो विषयमेव रमणीयम् ।
|| ३६ ॥