SearchBrowseAboutContactDonate
Page Preview
Page 50
Loading...
Download File
Download File
Page Text
________________ चन्द्रराजचरित्रम् - चतुर्थः परिच्छेदः गुणावलीवीरमत्योर्वार्ता भाररूपमेव मन्ये, तव जीवने त्वदर्थमानन्दसारं किमपि न दृश्यते। तदा चकिता गुणावली दीर्घमुच्छ्वसन्त्युवाच- पूज्यमातः ! किमिदमुच्यते ? मम कस्य वस्तुनस्त्रुटिरस्ति ? हस्तिनोऽथा रथाः स्वर्णानि रत्नानि वस्त्रभूषणादीनि सर्वाणि वस्तूनि वरीवृतति । जलमिच्छामि दुग्धमायाति, दासीदासादयश्च बद्धाञ्जलयस्तिष्ठन्ति, परिवारा अपि सानुकूला वर्तन्ते, श्रीमत्याश्छत्रच्छायया पित्रोर्गुरुजनस्य चाभावक्लेशोऽपि न ज्ञायते, मादृशी सुखिनी स्त्री भूमण्डले कापि भवेन्नवेत्यहं मन्ये । वीरमती गुणावल्या हस्तमवलम्ब्याऽऽहअयि पुत्रप्रिये ! वास्तविकं त्वमतिसरलप्रकृतिरसि, संसारे एतादृशा अपि जनाः सन्ति, ये परौष्ठप्रस्फुरणमात्रेणाऽप्यभिप्रायं जानन्ति। यदुक्तम्उदीरितोऽर्थः पशुनापि गृह्यते, हयाश्च नागाश्च वहन्ति नोदिताः । अनुक्तमप्यूहति पण्डितो जनः, परेजितज्ञानफला हि बुद्धयः॥४५॥ परमेतावत्कथनेनापि मम वचनाभिप्रायस्त्वया नाऽज्ञायि। संसारे चातुर्यमेव प्रधानमस्ति, मूर्खा अपि धनिनो रूपवन्तश्च भवन्ति, परं न ते कार्यसाधने समर्था भवन्ति, गुणिनस्तु गुणमेव पश्यन्ति । स्वयमपि ते गुणैर्यान्ति ख्यातितां तांश्च गुणज्ञाः सेवन्ते। यतःगुणाः कुर्वन्ति दूतत्वं, दूरेऽपि यसतां सताम् । केतकीगन्धमाघातुं, स्वयमायान्ति षट्पदाः ॥४६॥ अत एव सुन्दरं सुरक्तमपि किंशुकपुष्पं निर्गन्धत्वान्नैव केऽपि स्पृशन्ति । त्वं केवलं वस्रभूषणादेर्धारणं मधुरभाषणं चैव ॥ ३८ ॥
SR No.022562
Book TitleChandraraj Charitram
Original Sutra AuthorN/A
AuthorBhupendrasuri, Jayanandvijay
PublisherGuru Ramchandra Prakashan Samiti
Publication Year
Total Pages338
LanguageSanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy