________________
चन्द्रराजचरित्रम् - चतुर्थः परिच्छेदः
गुणावलीवीरमत्योर्वार्ता
T
हे स्नुषे ! गुणानामावलीत्यन्वर्थनाम्ना सहैव कुलीना विनयवती च त्वमसीति तथ्यम् । तव मुखादेवं वचनस्य निःसृतिर्न किञ्चिदाश्चर्यं यथा सुधांशोः सुधानिःसरणं, कमलेभ्यः सुवासस्य प्रसरणं, इक्षुभ्यो मधुररसनिर्झरणं, चन्दनाच्छैत्यप्राप्तिर्भवेच्चेत्तदाश्चर्यमेव किम् ? प्रियपुत्रवधु ! कोटिवर्षप्रमाणं तवाऽऽयुर्भवतु । त्वं मे प्राणेभ्योऽप्यधिका प्रियाऽसि ततो यत्ते मनोऽभिलषितं तन्मे निःशंकं याचनीयम्, तत्र संकोचलेशोऽपि त्वया न कार्यः । यदि मम पुत्रस्ते किमपि कष्टं दद्यात्तदा मह्यं निवेदनीयं मया स उपालम्भनीयो भवेत्, मम तूभावपि समौ नेत्रयोः सुखकारिणौ स्तः । अहं तुं त्वामपि पुत्रीमेव मन्ये चान्ये के मम सन्ति युवामेव दृष्ट्वा जीवनं दधत्यस्मि । तवाऽऽचारं व्यवहारं च पश्यन्त्या मे विश्वासोऽभूद् यत्त्वं ममाज्ञोल्लङ्घनं कदाचिदपि न करिष्यसि । अहमप्यद्य त्वां कथयितुमिच्छामि यत्त्वं ममानुकूलमाचरेः सदा कथनं कुर्यास्तदा मय्येतद्यद्विद्यादिसाधनं तत्सर्वं तवैवास्ति ह्येतत्सर्वं
स्वकीयमेवाऽवेहि, अत्र लेशमात्रमपि नाऽतथ्यम् । एवं वार्ता - लापेन वीरमती गुणावल्याः प्रतारणचेष्टां कर्तुं लग्ना गुणावली तु सरलस्वभावाऽतः साऽकुटिलस्वभावतया वीरमत्या दुरभिसन्धिं ज्ञातुं न शशाक, सा तस्याः सर्वं कथनं सत्यमेव बुबुधे । अप्रकटं वदन्त्यौ श्वश्रूवध्वौ दृष्ट्वा सख्यो दास्यश्चेतस्ततो गता वीरमती विजनमिति ज्ञात्वा गुणावल्याः कर्णे पुनरपि दुष्टविषयविषप्रक्षेपमारेभे । तयाऽवादि- प्रियस्नुषे ! त्वं राजपुत्र्यसि मम पुत्रस्ते पतिरस्ति, अतस्त्वं हर्षोत्फुल्लमानसा स्याः, परमहं तु तव जीवनं
।। ३७ ।।