________________
चन्द्रराजचरित्रम् - चतुर्थः परिच्छेदः विसर्ग
गुणावलीवीरमत्योर्वार्ता सीत्, काचिद्दर्पणं नीत्वा तिष्ठन्ती, काचित्पुष्पमालां विरचयन्ती, काचित्स्वामिनीं हासयितुं चेष्टमाना विनोदपूर्णवार्तां कथयन्त्यासीत्। तस्मिन् समये स्वर्गान्मनोविनोदाय मृत्युलोकमागता एता देवाङ्गनाः किमिति दृश्यमजायत । या विलोकनाय सहस्त्रांशुरपि स्तम्भित इव तस्थौ । सूर्यस्य प्रकाशे कुमुदिन्यो मुकुलिता भवन्ति, परन्त्वेनं विषयमजानतीव गुणावली चन्द्रस्य प्रकाशं प्राप्य कुमुदिनीव
सूर्यस्यापि प्रकाशे विकसन्ती बभूव । इत्थं राज्ञ्या गुणावल्या मन्दिरे स्वानन्दकल्लोला उच्छलन्त आसन् । तस्मिन्नेव समये दूरादेव समागच्छन्तीं वीरमतीं विलोक्य सत्वरं काचिद्दासी गुणावलीं सूचयामास । काचित्प्रियतमोवाच- प्रियभगिनि ! उत्तिष्ठोत्त्थाय स्ववश्र्वाः स्वागतं कुरु यतो वधूभावो न सुलभो भवति । यथा मे । शिरोधार्या भवती तथैव भवत्या अपि सा किमधिकं श्रीमत्याः पतिदेवोऽपि तस्या आज्ञामनुसरति । सख्याः कथनं निशम्य गुणावली समुत्थाय कियद्दूरमग्रे गत्वा सम्मानपूर्वकं वीरमतीं स्वमन्दिर आनीय पश्चादासनग्रहणानन्तरं तस्याश्चरणं गृहीत्वा तयोचे-पूज्ये मातः ! अद्य मे सौभाग्यं यदत्र भवत्याः शुभागमनमभूत्, भवत्यागत्य मां बहुमानपात्रं चकारेति सत्यं झटित्येवादिशतु कां सेवां कुर्यामिति । गुणावल्याः प्रेमविनयपूर्णं वचनं श्रुत्वा वीरमती भृशं मोदमाना तस्याः शिरसि हस्तं धृत्वाऽऽशिषं ददती जगाद - आकाशमण्डले धूवनक्षत्रस्थितिं यावत्तव सौभाग्यमचलं तिष्ठतु, एवं कथयन्ती तां स्वपार्श्वे समुपवेश्योवाच- प्रियपुत्रवधु ! केनचिद्विशेषकार्येण नाहमत्राऽऽगताऽस्मि, किन्तु चिरात्त्वां द्रष्टुमिच्छाऽवर्वर्तीदत आयाता ।
।। ३६ ।।
'