________________
चन्द्रराजचरित्रम् - चतुर्थः परिच्छेदः चार्वाको हि समक्षमेकमनुमायुग्बौद्धवैशेषिकौ, सांख्यः शाब्दयुतं द्वयं तदुपमायुक् चाक्षपादस्त्रयम् । सार्थापत्तिचतुष्टयं वदति तद् मानं प्रभाकृत्पुनर्भट्टिः सर्वमभावयुग् जिनमतेऽध्यक्षं परोक्षद्वयम्
गुणावलीवीरमत्योर्वार्ता
॥४१॥ इत्थं कश्चित्समस्तस्य जगतः कर्तेश्वरः, कश्चित्सर्वं ज्ञानमयं, कश्चित्सर्वं प्राकृतिकं, कश्चित् शशशृङ्गवद् वन्ध्यापुत्रवद् वा सर्वं मिथ्या भ्रमो वेति, एवमन्धगजन्यायेन सर्वे स्वस्वमतसिद्धये चेष्टमाना आसन् । वैयाकरणा विविधैः प्रकारैः शब्दव्युत्पत्त्या, वेदपाठिनः सस्वरवेदोच्चारणेन, साहित्यज्ञाः साहित्यचर्चया, कविनः रसालङ्कारसमस्यापूर्त्या, पौराणिका रामायणादिकथा श्रावणेन, वैद्या अन्नजलदुग्धवृक्षफलपुष्पाणां गुणागुणवर्णनेन तथाऽऽदाननिदानचिकित्सादीनां चर्चया सभामरञ्जयन् ।
यतः
रोगं रोगनिदानं, रोगचिकित्सा च रोगमुक्तत्यम् । जानाति सम्यगेत - द्वैद्यो नायुः प्रदो भवति
૫૪૫
मौहूर्तिकाः ग्रहादेः फलाफलवर्णनेन गणितेन च तथा प्रहरसाध्यप्रश्नान् घटिकामात्रे सदुत्तरेण, इत्थं सर्वे स्वैः स्वैर्विषयै राजानं सभां च रञ्जयन्त आसन् ।
यतः
गुरुरेकः कविरेकः, सदसि मघोनः कलाधरोऽप्येकः । अद्भुतमत्र सभायां, गुरवः कवयः कलाधराः सर्वे ॥ ४३ ॥
राजा चन्द्रोऽपि यथोचितदानसत्कारैश्च तान् संतोषयितु
।। ३४ ।।