________________
चन्द्रराजचरित्रम् - चतुर्थः परिच्छेदः गुणावलीवीरमत्योर्वार्ता केसरसन्देहं जनयन्त, आस्याद् निर्गलद्भिः फेनैः शुभ्रपुष्पौघव्यामोहमाभासयन्त इवाऽऽसन्, तेन वसन्त प्रादुर्भावो जनैरशति । राज्ञश्चन्द्रस्य मुखोद्गतं वचनामृतं कर्णशुक्तिकैः सुजनाः पिबन्त आसन, तत्फलं तेषामभिनवविचार एव मुक्ताफलवदुदपद्यत, तेन तस्य सभायां साक्षाच्छरदृतुरासीदिव | समन्ताद्राज्ञे प्रहितानामुपायनानां राशिस्तथाऽभवद्, यथा कृषकाः खले धान्यानि राशीकुर्वन्ति, अमुना दृश्येन राजसभायां प्रत्यक्षो हेमन्तर्तुर्विराजते स्मेव । तत्राऽहर्निशं राज्ञश्चन्द्रस्याज्ञामुरीकर्तुमागच्छन्तस्तुहिनैः संकुचितानि कमलानीव भयम्लानमुखाः शीतपीडिता जना इव भयात्कम्पमानविग्रहा राजानोऽभवन, तैः शिशिरतॊद्देश्य परिषद्यजनिष्ट । ग्रीष्मातः प्राणिभिर्यथा कुत्रचिदपि शान्तिर्न लभ्यते, तथा चन्द्रराजस्य शत्रवो गृहे नगरे वने वा शान्तिं नैवाऽऽपुः, किन्तु यदा तस्य च्छत्रच्छायामशिश्रियन् तदैव शर्माऽलभन्त । एतच्चमत्कारिकं दृश्यं पश्यद्भिर्जनैस्तत्र ग्रीष्मर्तोराविर्भावोऽमन्यत । इत्थं तत्सभायां युगपत् षड़तूनां ज्ञानेनाऽभासि । षट्शास्त्रवेत्तारः सुरगुरुरिव बुद्धिमन्तः स्वस्वपाण्डित्यप्रकटनाय राज्ञो मनोरञ्जनाय च परस्परं विवदमानाः पञ्चशतविद्वांसस्तत्र सर्वदाऽऽसन् । तेषु षड्दर्शनज्ञाः स्वस्वदर्शनविशेषतां प्रकटयितुं संलग्राः-प्रत्यक्षप्रमाणवादिनचार्वाकाः सर्वं प्रत्यक्षमेव सत्यमित्येवाकथयन् । क्षणिकवादिनः सौगताः सर्वं क्षणिकं प्रतिपादयन्त आसन् । वैशेषिकाः शब्दमेव प्रमाणममन्यन्त, सांख्यज्ञाः प्रत्यक्षं शब्दमनुमानञ्च, नैयायिकाः प्रत्यक्षानुमानोपमानशब्दाः प्रमाणानि, चाऽऽर्हताः प्रत्यक्षानुमानौ सदाऽमन्यन्त | यदुक्तम्
|| ३३ ।।