________________
चन्द्रराजचरित्रम् - चतुर्थः परिच्छेदः
गुणावलीवीरमत्योर्वार्ता
अथ श्रीचन्द्रराजसंस्कृतचरित्रस्य
चतुर्थपरिच्छेदे गुणावलीवीरमत्योर्वार्तापत्युः सपत्न्याश्च दीक्षाग्रहणानन्तरं स्वतन्त्रा वीरमती रहस्येकदा चन्द्रकुमारमाहूयाऽवोचत्- प्रियपुत्र ! त्वमिदानीं बालकोऽसि, पितरौ दुर्वहं राज्यभारं त्वयि न्यस्य जग्मतुः, परं मयि जीवितायां त्वया चिन्ता न कार्या, मयि चैतादृशी दिव्याऽलौकिकी शक्तिरस्ति, यया त्वत्कृते देवेन्द्रासनमपि समानयितुं शक्नोमि, सूर्य्यस्य रथ्यं, रेवन्ताख्यमचं तवावशालायां बन्धयेयं, निखिलं काञ्चनगिरिमपि समुत्थाप्यानयेयं, देवकन्यया सह त्वां विवाहयेयं, चैतेषु वृत्तेषु किञ्चिन्मात्रमपि सन्देहो नास्तीति त्वमवेहि | त्वदर्थमहं सर्वं कर्तुं शक्नोमि, परन्त्वेतदपि जानीहि, यत्प्रसन्नाऽहं त्वदर्थे पीयूषरसवल्ली चाप्रसन्ना विषवल्ली भवितुमर्हामि । यदि यौवनोन्मत्तः सन् मदाज्ञोल्लङ्घनं कुर्याः, मदाज्ञां विना किञ्चित्कार्यं कुर्याश्वेदथवा मच्छिद्रान्वेषी भविष्यसि तदा परिणामः शुभो न भविष्यति। तस्यामवस्थायां त्वां शत्रु ज्ञास्यामि, ते निष्ठुरादपि निष्ठुरं दण्डं दातुं संकोचरहिता भविष्यामि । _ नमश्चन्द्रकुमारो मातुर्वचनं निशम्य बद्धाञ्जलिः सन्नुवाचमातः ! मत्तो निरातङ्का तिष्ठ | सर्वदाऽहं तवाज्ञां शिरसा पालयिष्यामि, यतो भवत्येव मम माता, पिताऽन्नदाता, राजा सदैव
|| ३० ।।