________________
चन्द्रराजचरित्रम् - चतुर्थः परिच्छेदः
गुणावलीवीरमत्योर्वार्ता त्रियोगेन त्रिकालमान्या चेवरस्वरूपाऽस्ति, पुनरन्नवस्त्रमात्रेणैव मे प्रयोजनमस्ति । एतत्सर्वं राज्यं सम्पत्तिः समस्तभोगा भवत्या एव सन्ति। मदर्थं भवत्कृपैवापेक्ष्यते, तयैवाहं प्रसन्नो भविष्यामि, नान्यत्किञ्चिदिच्छामि । इत्थं चन्द्रकुमारस्य विनयान्वितं वचनं श्रुत्वा वीरमती प्रसन्नाऽभवत्तराम् । यत:जितेन्द्रियत्वं विनयस्य कारणं, गुणप्रकर्षो विनयादयाप्यते । गुणाधिके पुंसि जनोऽनुरज्यते, जनानुरागप्रभवा हि संपदः ॥३७॥
वीरमत्युवाच- प्रियपुत्र ! त्वं समस्तसुखभोगान् मुक्ष्व, मम जीवनमपि त्वदर्थमेवाऽस्ति, तव कल्याणं भूयादित्येव ममाशीरमरगणस्ते कल्याणं क्रियात्त्वं च दीर्घाऽऽयुर्भवैवं निगद्य तं प्रस्थापयामास | चन्द्रकुमारश्च शनैः शनैः राज्यभारमुवाह - स च पूर्वसुकृतयोगात्सौन्दर्यसद्गुणराशिं गुणावली पत्नी प्राप्य तया सह हंसो हंस्येव सांसारिकसुखास्वादनं कृतवानासीत् । यतःउरसि निपतितानां सस्तथम्मिल्लकानां, मुकुलितनयनानां किञ्चिदुन्मीलितानाम् । सुरतजनितख्नेदस्वेदगण्डस्थलीनामधरमधु वधूनां भाग्यवन्तः पिबन्ति
રેટા कामकलानिपुणा गुणावल्यपि तमनिर्वचनीयसुखरसास्वादनं कारितवत्यासीत् | नीरक्षीरयोरिव दम्पती साम्यस्वरूपो भूत्वा देहभेदेऽपि प्राणैक्यमित्युक्तिसार्थक्यं चक्रतुः ।
|| ३१ ।।