________________
चन्द्रराजचरित्रम् - तृतीयः परिच्छेदः चन्द्रावतीवीरसेनयोर्दीक्षाग्रहणम् न जातु कामं कामाना-मुपभोगेन शाम्यति । हविषा कृष्णवर्मेव, भूय एवाभिवर्धते
॥३१॥ परन्त्वेनं जरादूतं विलोक्य मे मनो भोगात्परावर्तते । एतदैश्वर्यं भोगाश्चाऽनित्या नीरसाश्च प्रतिभान्ति । यदुक्तम् - चेतोहरा युवतयः स्वजनोऽनुकूलः, सद्वान्धवाः प्रणयगर्भगिरश्च भृत्याः । वल्गान्ति दन्तिनियहास्तरलास्तुरङ्गाः, संमीलने नयनयोर्नहि किञ्चिदस्ति
॥३२॥ राज्ञो वचनं श्रुत्वा चन्द्रावती औदासीन्यमाप | सा चैतादृशविरागोत्पादकवचनकथनेन पश्चात्तापवती जाता। विषयोत्पादकानेकवार्तालापेन राज्ञो विचारस्य परावर्तने भृशं चेष्टमानायामपि राजा ततो न न्यवर्तत । निरुपाया स्वोक्तौ खेदमावहन्ती चन्द्रावती सकलकार्यसम्पादनातिपटीयसी वीरमतीमानिन्ये, उभाभ्यां निवारितो राजा यदाऽऽत्मनः संकल्पितादचल इव न चचाल | यतःअद्यापि नोज्झति हरः किल कालकूटं, कूर्मो बिभर्ति धरणी खलु पृष्ठभागे । अम्भोनिधिर्वहति दुस्सहवाडयाग्नि, -मङ्गीकृतं सुकृतिनः परिपालयन्ति
॥३३॥ तदा चन्द्रावती राजानमुवाच-प्राणनाथ ! भवन्निश्चितदीक्षाग्रहणे नाऽहं बाधिकाऽस्मि, किन्तु मामपि चारित्र्यग्रहणायाऽऽज्ञापय।
|| २८ ॥