________________
चन्द्रराजचरित्रम् - तृतीयः परिच्छेदः चन्द्रावतीवीरसेनयोर्दीक्षाग्रहणम्
इयमेव परमात्मनो गुणगानं कारयितुं सहायिकास्ति । अस्मिञ्जगति जराया एव साम्राज्यं दुस्त्याज्यं वर्तते । अस्याः शासनोल्लङ्घने न केऽपि समर्था भवेयुः काकवदतिकृष्णानपि केशान् स्वप्रभावाद्धंसवत् शुक्लीकरोति । किमधिकं ? वार्द्धक्ये तु पुरुषमतिविडम्बयति सा ।। यदुक्तम् - गात्रं संकुचितं गतिविगलिता दन्ताश्च नाशं गता, दृष्टिर्भ्राम्यति वर्धते बधिरता वक्त्रं च लालायते । वाक्यं नैव करोति बान्धवजनः पत्नी न शुश्रूषते, हा कष्टं पुरुषस्य जीर्णवयसः पुत्रोऽप्यवज्ञायते ॥२९॥
दन्ता रसना च परस्परमुपकुरुतः, जरा दन्तानपि निपात्य रसनामसहायां करोति । पलितं चास्या वायुकम्पितपताकास्ति। आगतायामेवास्यां कामसुभटाः कान्दिशीका भवन्ति । मयाप्यस्याः सत्ता मन्तव्या, अतः स्त्रियं बान्धवांश्च त्यक्त्वोभयलोकस्वार्थसाधिकानन्तभवभ्रमणैकबाधिका सप्तकुलावधिशंप्रसाधिका वीतभया जिनदीक्षा स्वीकर्त्तव्या | मनस्येवं विचिन्त्य राजा न्यगादीत् - यतःन च राजभयं न च चौरभयं, इह लोकहितं परलोकसुखम्। नरदेवनतं वरकीर्तिकरं, श्रमणत्वमिदं रमणीयतरम् ॥३०॥
ततोऽहं अयि प्रिये ! साम्प्रतं राज्यभारं संत्यज्य संयमभारमङ्गीकर्तुमिच्छामि । एतावत्कालं यावद् भोगात्तृप्तिर्न जाता ।
यतः
|| २७ ||