________________
चन्द्रराजचरित्रम् - तृतीयः परिच्छेदः चन्द्रावतीवीरसेनयोर्दीक्षाग्रहणम् श्वास्तीति निशम्य परितोऽवलोकयन् राजा कमप्यदृष्ट्वा रुष्टः सन्नभाषत-कश्चैतादृशो य आज्ञां विनान्तःपुरप्रवेशसाहसमकरोत्? अस्यापराधस्य कृते तं पूर्णं दण्डं दास्यामि । राड्युवाच नाथ ! क्रोधं जहीहि, अत्राङ्गुष्ठमपि प्रवेष्टुं न केऽपि समर्थाः सन्ति किं पुनः पादप्रक्षेपणे ? किन्तु श्रीमतः शिरोबालं पलितमहमद्राक्षं तदेव जरादूतस्तस्यैव संकेतो मया कृतः । श्रुत्वैवं राज्ञः क्रोधः शशाम, राज्ञा मनसि चिन्तितमहो! जरयाऽहमपि न त्यक्तः, शिवेन कामदेवदाहः कृतः श्रूयते, स च जरामपि दहेच्चेत्तदा न कोऽपि जरापीडितो भवेत् । रजको यथा वस्त्रं सितीकरोति तथेयं जराऽपि केशान् शुक्लीकरोति । रे चित्त ! अतः सावधानं भव, अयमेव समयोऽस्ति । उक्तञ्च - यावत्स्वस्थमिदं कलेवरगृहं यावच्च दूरे जरा ?, यावच्चेन्द्रियशक्तिरप्रतिहता यावत्क्षयो नायुषः । आत्मश्रेयसि तावदेव विदुषा कार्यः प्रयत्नो महान्, प्रोद्दीप्ते भवने च कूपखननं प्रत्युद्यमः कीदृशः ? ॥२७॥
___ बहिर्यदा जराप्रकाशो भवेत्तदा त्वयाप्यन्तःप्रकाशने सोद्यमेन भवितव्यम् । राज्यान्ते नरकं व्रजेदिति कथं त्वमनेन बद्धोऽसि ? हे आत्मन् ! सबुद्ध्येकधनेन त्वया जराया उपदेश उपकारश्च सदैव हितकारितया मन्तव्यः । यतः - प्रथमे नार्जिता विद्या, द्वितीये नार्जितं धनम्, तृतीये नार्जितो धर्मः, चतुर्थे किं करिष्यति ? ॥२८॥
|| २६ ॥