________________
चन्द्रराजचरित्रम्
द्वितीयः परिच्छेदः
वीरमत्याः पुत्रकामना
स्वयमेव तत्र गत्वाऽगादीत् - मन्दिरे कोऽस्ति ? बहिर्निर्गच्छ, रात्रिशेषोऽभूदरं गन्तव्यमस्ति, पुनश्च देववस्त्रं मनुष्योपयोगं नायाति, अधुना मम वस्त्रं मिलिष्यति चेत्त्वया दत्तं दानमहं मंस्ये । असह्यं | मे विलम्बं मा कुरु, यदि ते किञ्चित्कार्यं भवेत्तदप्यरं करिष्यामि । मद्वचने विश्वासं कुरु, मन्दिराभ्यन्तरे यः कश्चित् पुरुषः स्त्री वा भवेद् बहिरागच्छ, मद्वस्त्रं गृहीतं चेद्देहि । प्रधानाया वचनमाकर्ण्य वीरमती झटिति मन्दिरद्वारमुद्घाट्य बहिराजगाम तां दृष्ट्वा - प्सरस आश्चर्यमीयुः । वीरमत्युवाच भगवति ! भववस्त्रं दातुं तत्पराहं किन्तु पूर्वं मम कार्यं कुरु । साऽवदत्साधु साधु, किमिच्छसीति कथय ? वीरमती जगाद मम सपत्न्याश्चन्द्रकुमारनामा पुत्रोऽस्ति किन्तु ममोत्सङ्गं शून्यमस्ति, शुकवचनादहमत्रागताऽस्मि, मयैव भवत्या वस्त्रं नीतं ममागः क्षमस्व, पुत्रमेकं चावश्यं मे देहि, पुत्रं विना मे जीवनं भारायते । एतन्मात्रमेव मेऽभिलाषः, वीरमत्याश्चैतां याचनां श्रुत्वाऽप्सरा विचारमग्ना बभूव । साऽवधिज्ञानेन विचार्योवाच हे वीरमति ! तव भाग्ये पुत्रयोगो न वर्तते । कथितमपि -
महतां स्थानसङ्गेऽपि, फलं भाग्यानुमानतः । ईथरकण्ठलग्नोऽपि, वासुकिर्मारुताशनः
॥२५॥
तस्मात्ते पुत्रदानेऽसमर्थाहं परन्त्वहमाकाशगामिनीं शत्रुबलहारिणीं विविधकार्यकारिणीं जलतारिण्यादिविद्यां ददामि, सिद्धायामेतस्यां राजा प्रजाश्चन्द्रकुमारश्च तव वशे स्थास्यन्ति । किन्तु तस्मै दुःखं न देयं, सपत्नीजोऽयमिति विचारस्त्वया त्याज्यस्ततस्ते
।। २३ ।।