________________
चन्द्रराजचरित्रम् - द्वितीयः परिच्छेदः
वीरमत्याः पुत्रकामना नृत्यादिकं बभूव तथाप्सरसां कोकिलालापिनीनां कलरवेण मन्दिरं गुञ्जितम् । प्रान्ते श्रान्त्वा ताः सर्वास्ततो बहिर्जग्मुः । मन्दिरादारादेवैका पुष्करिणी वर्तते स्म, तत्र स्नानाय सर्वासां विचारोऽभूत्। पुनः सर्वाः स्वकं स्वकं वस्त्रं मुक्त्वा पुष्करिणी विविशुः । इतश्च वीरमती कालमपेक्षमाणा तत्रोपविष्टाऽऽसीदेव, अतः परं समयं सा कथं लब्धुं शक्नुयात् ? किञ्चिद् व्यवहितेऽप्सरोगणे सा शुकादेशानुसारेण प्रधानाप्सरसो नीलं वस्त्रमुत्थाप्य पुनर्जिनमन्दिरं गुप्तेनाध्यासांचक्रे, अस्मिन्नवसरे मन्दिरस्य द्वारमपि सार्गलं पिहितं चकार | साम्प्रतमनायासेन स्वकार्यसिद्धिं विभाव्य सा परां मुदमाप | अप्सरसश्च निश्चिन्ततया पुष्करिण्यां चिरं स्नानादिजलक्रीडां कृत्वा ततो निरीयुः सर्वाः स्वं स्वं वस्त्रं च परिदधुः । किन्तु प्रधानाप्सरसः वस्त्रमनवाप्य रुष्टाः सत्यः, सर्वाः सखीः प्रति निर्भर्त्सयन्त्यो जगदु: ? असमये कया हास्यं कृतं नेदं हास्यं मे रोचते, शीघ्रमेव देहि, नो चेदन्तेऽस्य फलमनिष्टं भवेदिति स्वामिन्या वचनं निशम्य कम्पमानाः सर्वा इतस्ततोऽन्वेषयन्त्यो वस्त्रमनाप्य हताशाः प्रोचुः- देवि ! सशपथं कथयामो नैतासु कयापि भववस्त्रं गृहीतं, भवती स्वामिनी, स्वामिन्या सह हास्यं वयं कथं कुर्याम ? पुनरित्थं हास्यं तु सर्वथानुचितमेवेत्यस्मासु संदेहं मा कृथाः । परन्तु पश्य-अस्माकं स्नानसमये मन्दिरस्य द्वारमुद्घाटितमासीत्तच्चेदानी पिहितमस्ति, ततः संभावयामो यद्वस्त्रं गृहीत्वा कश्चिन् मन्दिराभ्यन्तरे छन्नो भवेत् । सखीनां वचनमाकर्ण्य स्वामिन्याश्चेतस्तत्राकृष्टमभूत, शीघ्रमेव तत्र धावन्ती काचिन्मन्दिरकपाटं ताडयन्ती यदा प्रत्युत्तरं न लेभे तदा प्रधाना
|| २२ ।।