________________
चन्द्रराजचरित्रम् - द्वितीयः परिच्छेदः
वीरमत्याः पुत्रकामना दैवं निहत्य कुरु पौरुषमात्मशक्त्या, यत्ने कृते यदि न सिद्ध्यति कोऽत्र दोषः ॥२३॥
वीरमती त्वेका राज्यासीत्तया कदाचिदप्येकाकिन्या हादहिः पादौ न निहितौ, तथापि निर्भीकतया नगरादहिनिःसृत्य तस्योद्यानस्याभिमुखं सा चचाल, यच्छुकोऽदर्शयत् । आकाशे निर्मलश्चन्द्रो हसन्निवाऽऽसीत् भूमौ लतावकाशेषु चन्द्रिका रममाणेवासीत्, परितो मनोरमं सर्वं दृश्यं दृश्यते स्म, सत्स्वप्येतेषु मनोज्ञवस्तुषु राझ्या मनो नासक्तम् । सा त्वरया स्वमार्ग निःशेषं कुर्वती, शीघ्रमेव दूरात्तच्चैत्यं ददर्श | शिखरस्थस्वर्णकलशेन वायुकम्पितवैजयन्त्या च तदवगन्तुं कालो नालगत् । तत्र गच्छन्त्येव वीरमती प्रथमं श्रीऋषभप्रभोदर्शनं कृत्वा, स्वाविनयक्षमापणार्थ प्रार्थितवती, चानन्तरं गुह्येन तूष्णीं सा तत्रैव तस्थौ ।
क्षणान्तरेणैवाप्सरोगणस्तत्रागत्योपस्थितो बभूव | आदावादीश्वरं प्रभुं नमस्कृत्य केशरचन्दनाद्युत्तमद्रव्यैर्वाञ्छितप्रदं तमानर्च। यतः - स्वर्गस्तस्य गृहाङ्गणं सहचरी साम्राज्यलक्ष्मीः शुभा, सौभाग्यादिगुणायलिर्विलसति स्वैरं वपुर्वेश्मनि । संसारः सुतरः शियं करतलक्रोडे लुठत्यञ्जसा, यः श्रद्धाभरभाजनं जिनपतेः पूजां विधत्ते जनः
ततो भावपूजामारेभे-नानाजातीयकं वाद्यं सज्जीकृत्य तेषां स्वरं परस्परं संगमय्य, सुसज्जितेषु सर्वेषु गानवाद्यनृत्यादिकं सर्वं क्रमशः स्वां स्वां कलां प्रकटीचकार | तत्रैवं बहुकालपर्यन्तं
|| २१ ।।