________________
चन्द्रराजचरित्रम् - द्वितीयः परिच्छेदः वीरमत्याः पुत्रकामना नीलवस्त्रभूषणादिकं परिधत्ते, यदि तस्यास्तद्वस्त्रं केनाप्युपायेन करस्थं स्यात्तदा तव कार्य सेत्स्यति । कथमयं जानातीति कदाचित्ते संदेहो भवेत् ? तर्हि गतवर्षेऽहं तेन विद्याधरेण सह तत्रागत आसमतोऽहं सर्वं जानामि तद्विद्धि । अस्मिन् वर्षे चैत्रपूर्णिमायां त्वयैकाकिन्यैव तत्रावश्यं गन्तव्यं, कथमपि स्वकार्यं साधनीयम् । एवमुक्त्वा शुकस्तत उत्पपात | तद्वियोगाद्वीरमत्या नयनेऽश्रुपूर्णे बभूवतुः । पञ्चाच्छनैः शनैः सन्ध्या जाता स वीरसेनो राजा सपरिवारो नगरमाययौ, वीरमती स्वहयं जगाम | अल्पकालेनैव सा चैत्रीपूर्णिमा समुपस्थिता । स्मृतशुकवचना वीरमती कथमपि दिवसं व्यतीत्य समागतायां रात्रावन्यवेषं कृत्वा, हयं दास्यै समयकाकिन्येव ततश्चचाल । यद्यपि साऽबलासीत्तथापि स्वार्थ-वशेन पुरुषोचितकार्यकरणात्तस्याः साहसस्य वीरत्वस्य चावश्यकताऽऽसीत् । लोके खलु स्वार्थोऽपूर्वः पदार्थोऽस्ति, यस्य सिद्ध्यर्थं मनसा वाचा कायेन च प्राणिनश्चेष्टन्ते। परं सिद्ध्यसिद्धी तु दैवाधीने भवतः ।
यतः
॥२२॥
उद्यम कुर्वतां पुंसां, भाग्यं सर्वत्र कारणम् । समुद्रमथनाल्लेभे, हरिलक्ष्मी हरो विषम्
तथापि सत्पुरुषाः स्वोद्योगान्न स्खलन्ति | यदुक्तम् - उद्योगिनं पुरुषसिंहमुपैति लक्ष्मीदैवेन देयमिति कापुरुषा वदन्ति ।
|| २० ।।