________________
चन्द्रराजचरित्रम्
द्वितीयः परिच्छेदः
वीरमत्याः पुत्रकामना
शुकोक्तं श्रुत्वा प्रसन्नीभूय निजमान्तरिकं दुःखं वीरमती निवेदयिष्यन्त्युवाच-अये भ्रातः शुक ! यदि मन्त्रयन्त्रौषधयस्तव ज्ञाताः स्युस्तर्हि मां कथय, येनाहं पुत्रमुखं द्रष्टुं शक्नुयाम् । यदि तव विद्यास्मिन संकटे नोपयोगं यास्यति तर्हि कदाऽऽगमिष्यति ? अतोऽधिकतरं निवेदनमनुचितमिति त्वं मे दुःखं दूरीकुर्याश्चेदद्यप्रभृति त्वां भ्रातृसमं मंस्ये । नवलक्षमूल्यकं हारं ते परिधापयिष्यामि, पुनरुत्तमं भोजनं खादयिष्यामि तवोपकारं च स्वीकरिष्यामि । शरणागताहं ते निष्कपटभावेन सर्वं वृत्तं निवेदितवती ततोऽधुना त्वं केनापि प्रकारेण पुत्रमेकं दत्त्वा सनाथं मे जीवनं कुरु । श्रुत्वैतत्सर्वं वृत्तान्तं शुकोऽकथयत् - देवि ! दुःखिनी मा भूः । का
1
शक्तिर्ययाहं किञ्चित्कर्तुं शक्नुयां परमीश्वरः सर्वेप्सितं पूरयिष्यति । केवलमहं तूपायं दर्शयिष्यामि, पुनरद्यारभ्य त्वयि स्वसृवदाचरिष्यामि । त्वत्कृते बन्धुत्वेन यथाशक्ति चेष्टिष्येऽतस्त्वं दुःखचिन्तां विहाय शान्ति धेहि ।
यदुक्तम्
स बन्धुर्यो विपन्नाना- मापदुद्धरणक्षमः । न तु भीतिपरित्राण - वस्तूपालम्भपण्डितः
॥२१॥
शुकोक्तवचनेन वीरमत्याश्चेतः किञ्चिच्छान्तिमाप, शुकः स्तोकं विरम्य पुना राज्ञीमुवाच- देवि ! साम्प्रतमहमेकमुपायं दर्शयामि तच्छृणु-अस्यारण्यस्योत्तरे भागे एकस्मिन्नुद्याने श्रीऋषभदेवस्वामिनश्चैत्यमस्ति । तत्र चैत्रपूर्णिमादिने नृत्यसामग्रीं गृहीत्वा बहव्योऽप्सरसो महोत्सवं कर्तुमागच्छन्ति । तासु या प्रधाना सा
।। १६ ।।