________________
चन्द्रराजचरित्रम् द्वितीयः परिच्छेदः
कामाऽऽतुराणां न भयं न लज्जा, चिन्ताऽऽतुराणां न सुखं न निद्रा
―
वीरमत्याः पुत्रकामना
॥२०॥
तदानेकां वार्तां श्रावयित्वा कुपथात्को न्यवारयत् ? शुक एव । नलदमयन्त्योर्मिलनमपि हंसस्यैव कृपयाऽभूत् । अस्म्यहं पक्षी तेन किमभूत् ? यद्येकमप्यक्षरं पठामि, तथापि तत्कदापि नैव विस्मरामि । मनुष्यास्तु शास्त्राण्यधीत्यापि तेषां सारं न गृह्णन्ति । शास्त्रकारेणास्मभ्यमपि तदेव पदं दत्तं यच्च मानवेभ्यो, न वयं केभ्योऽपि न्यूना इति तत्तात्पर्यम्। केवलं न्यायार्थमेव मया स्वजातिप्रशंसा कृता । विश्वसनीयं त्वया यन्नाहं किञ्चिन्मिथ्या ब्रवीमि । चातुर्यगर्भितं शुकस्यैतद्वचनं श्रुत्वा वीरमती परमानन्दं प्राप्य जगाद - त्वमतीव साधुश्चतुरश्च संलक्ष्यसे तव वचनं च परं मधुरमस्ति । त्वं च सच्चरित्रः प्रतिभासि, अवश्यं तेऽहं स्वदुःखं कथयिष्यामि । परमेतत्पूर्वं कथय त्वयेयं शिक्षा कुत्र कस्माच्च प्राप्ता ?
कोऽवदत्-एको विद्याधरो मां स्वर्णपञ्जरे निगृह्य स्वपार्खे यत्नेन रक्षितवानासीत् । एकदा स मां सपअरं गृहीत्वा साधुवन्दनार्थं गतस्तत्र मुनिवन्दनया सर्वं मे पापं ननाश । मुनेरुपदेशो मे प्रियतरोऽलगत्सो मां पञ्जरे रुद्धं दृष्ट्वा तिर्यग्बन्धनजन्यं पापं व्यवर्णयत् । विद्याधरश्च मुनेरुपदेशं श्रुत्वा मां बन्धनमुक्तं चकार, मुनिराजेनाप्येवं मे बहूपकृतम् । तदारभ्यैवाहं स्वतन्त्रतया विचरामि तथाद्याहमस्यामेव दिशि निःसृतः, सुन्दरं चेमं वृक्षं दृष्ट्वोपाविशं, तदनन्तरं यदभूत्तदवगच्छस्येव । अतः परं त्वं स्वदुःखकारणमावेदय, तुभ्यं मृषा सान्त्वनां नाहं ददामि यावत्साध्यमहं ते दुःखमवश्यं निवारयिष्यामि ।
।। १८ ।।