________________
चन्द्रराजचरित्रम्
द्वितीयः परिच्छेदः
वीरमत्याः पुत्रकामना
विवेकशून्या भवन्ति, तन्मां दुःखवार्तां पृष्ट्वा किं करिष्यसि ? त्वां विज्ञाप्य को वा लाभः ? यदि त्वं मे दुःखं न्यवारयिष्यत्तदाहमकथयिष्यम्, किन्तु नाहं तथा यत्सर्वेषां समक्षं दीनं वचो ब्रवीमि ।
यतः
रे रे चातक ! सावधानमनसा मित्र ? क्षणं श्रूयताम्, अम्भोदा बहवो वसन्ति गगने सर्वेऽपि नैतादृशाः । केचिद् वृष्टिभिरार्द्रयन्ति धरणीं गर्जन्ति केचिद् वृथा, यं यं पश्यसि तस्य तस्य पुरतो मा ब्रूहि दीनं यचः ॥१९॥
|
राज्ञ्याः साभिमानमेतद्वचो निशम्य शुकः किञ्चित्क्रुध्यन्नवदत् - अरे ! त्वमात्मानं कुशलं मन्वाना कथं गर्वं करोषि ? त्वया मनसि विचारितमासीद्यदेकः पक्षी किं कर्तुं प्रभविष्यति, परमहं तुभ्यं ज्ञापयितुमिच्छामि यद्यत्कार्यं मनुष्यः कर्तुं न शक्नुयात्तत्पक्षी कर्तुं शक्नोति । नाहं तवैतद्वचनं कदाचिदपि मंस्ये, इति वीरमतीकथनान्तरं शुको जगाद - तवैतन्मौढ्यमस्ति, त्वं पक्षिणं तुच्छं जानासि । परं पश्य - श्रीकृष्णस्येव पुरुषोत्तमस्यापि वाहनं गरुडोऽस्ति, सरस्वत्याश्च हंसः । त्वया श्रुतमासीत् यदेकस्य पक्षिणोऽण्डानि समुद्रोऽहार्षीत्तदा सर्वान् पक्षिणः सङ्घीकृत्य समुद्रात्पश्चादानिन्ये, क एक पक्षी एव ? एका वणिग्भार्या कामातुरा सती कुमार्गं गन्तुं प्रवृत्ता ।
यतः
अर्थाऽऽतुराणां न सुहृन्न बन्धुः, क्षुधाऽऽतुराणां न वपुर्न तेजः ।
।। १७ ।।