________________
चन्द्रराजचरित्रम् - द्वितीयः परिच्छेदः
वीरमत्याः पुत्रकामना ममा शून्यमस्ति, यथा मनो विना प्रेम निःसारं भवति, तथैव पुत्ररहितं मे जीवनमपि निःसारं प्रतिभाति ।
यथा वा जीवितं विना शरीरं, दीपं विना गृहं, गन्धं विना पुष्पं, जलं विना सरः, दयां विना ज्ञानं धर्म च, प्रियवाक्शून्यं दानं, मूर्ति विना मन्दिरं, विना दन्तैर्भोजनं, पानीयं विना मेघः, चन्द्रं विना रात्रिः शोभा नैवाऽऽवहति, तथैव पुत्रं विना कामिन्यपि शोभां न प्राप्नोति । एते देशनगरभाण्डागारप्रासादोपवनर्द्धिसिद्धिप्रभृतयः कदा कस्मिन् वा कार्ये ममोपभोगं यास्यन्ति ? पुत्रशून्यगृहे केऽपि पदमपि न निदधति, इह संसारे यस्य गृहे सुपुत्रोऽस्ति तस्यैव जीवनं सफलमस्ति सुगतिश्चापि जायते । उक्तमपिअपुत्रस्य गति स्ति, स्वों नैव च नैव च । तस्मात्पुत्रमुखं दृष्ट्वा, स्वर्गं गच्छन्ति मानवाः ॥१८॥
तच्छून्यस्य तु सर्वथा निष्फलमेव गार्हस्थ्यमित्थं मनसि विचारयन्ती वीरमती विविधान् कुतर्कान् कृतवत्यासीत्तस्मिन्नेवावसरेऽकस्मात्समीपस्थमामवृक्षमेकः शुक आगत्याऽधितष्ठौ, विमनस्कां राज्ञीं दृष्ट्वा तस्य कीरस्य हृदयं सिष्विदे | स मनुष्यवाचोवाच-अयि सुन्दरि ! कस्मात्त्वमेतस्मिन्नानन्दसमय इत्थं शोकमावहसि, कथं वा रोदिषि ? किं ते दुःखं, का वा चिन्तास्ति ? शुकस्यैतद्वचनं श्रुत्वा ऊर्ध्वं पश्यन्त्या राड्या दृष्टि: शुकोपर्यपतत्सचकितया तया प्रोचे - हे शुक ! त्वमस्येकः पक्षी, वने निवास आकाशे विचरणं च ते कार्यमस्ति, वनवासिनस्तिर्यञ्चः प्रायेण
|| १६ ।।