________________
वीरमत्याः पुत्रकामना
चन्द्रराजचरित्रम् द्वितीयः परिच्छेदः
परिवारश्चोद्याने क्रीडनार्थं जगाम । तत्र च स्वेच्छया क्रीडितुं लग्नः । केचित्कुङ्कुमोत्क्षेपणं केचित्केशरोत्पाटनं केचन वृक्षेषु हिन्दोलक्रीडयाऽऽनन्दमापुः । चन्द्रकुमारः स्ववयस्यै राजपुत्रैः सह पुष्पकन्दुकं निर्माय क्रीडायां निमग्नो बभूव । चैवं सर्वेऽपि विविधासु क्रीडासु तत्परा अभूवन् परमेतत्सर्वं दृष्ट्वा खलप्रकृतित्वाद् वीरमत्या मनसि द्वेषाग्निः प्रजज्वाल ।
यदुक्तम्
उपकारिण्यपि सुजने, स्निग्धेऽपि खलास्त्यजन्ति न प्रकृतिम् । ज्वलति जलैरपि सिन्धो रहे निहितोऽपि वडवाग्निः ॥ १६ ॥
अपि च तस्या मनोदुःखं नेत्राम्बुरूपेणोच्छलदिव बहिर्निरगलदिति वीरमतीं विमनस्कां दृष्ट्वा सख्यः पप्रच्छुः - वयस्ये ! अस्मिन्नानन्दसमये भवती कथं विमना लक्ष्यते ? कन्दर्पोपमस्तव पतिः क्रीडति, चन्द्रकुमारोऽपि तव समीप एव रमते तत्पश्य, पुनः कथं भवती शोकमग्नेव दृश्यते ? किं केनापि किमपि कथितमुत केनाप्यपराद्धम् ? एतन्निशम्याऽपि वीरमती किमपि प्रत्युत्तरं नाऽदात्तस्या मनः सम्प्रत्यन्यविषयासक्तमासीत् । चन्द्रकुमारः सहचरैः सहाऽरंस्त, तस्या अङ्कं शून्यमासीत् ।
यतः
उत्पतन्निपतन् रिङ्खन्, हसंल्लालावलीर्वमन् । कस्याश्चिदेव धन्यायाः, क्रोडमायाति नन्दनः
॥१७॥
अतः सा शीतलमुच्छ्वसन्ती दुर्भाग्यमुपगर्हन्ती मनस्येवाऽवक्- हे दैव ! अहं पूर्वजन्मनि किं पापं कृतवती ? येन
।। १५ ।।