________________
चन्द्रराजचरित्रम् - अष्टाविंशः परिच्छेदः चन्द्रनृपदीक्षाग्रहणम् यत्कर्माऽऽसीत्तदात्मप्रदेशात्पृथगभूय स्वच्छपरमाणुरूपस्य लाभेन मोक्षकारणरूपं जातम् । अतस्तेन यथाख्यातचारित्रस्य प्राप्तिः कृता । ततस्तस्य चन्द्रराजर्षेः केवलज्ञानभानूदयाल्लोकालोकः प्रकाशितो बभूव । तेन तस्य समस्तसांसारिकजीवानां सुखदुःखजन्ममरणगताऽऽगतीत्यादिभावा हस्ताऽऽमलकवज्ज्ञाता बभूवुः, तस्य च समस्ता भ्रान्तिदूंरं गता । तदानीं निकटस्थैः सम्यगदृष्टिभिर्देवैर्घनघातिकर्मणां क्षयं केवलज्ञानोदयं च विदित्वा ज्ञानोत्सवो विहितः । तस्मिन् क्षणे देवकृतस्वर्णपङ्कजे समुपविश्य पर्षदि चन्द्रकेवलिनाऽद्भुता धर्मदेशना दत्ता । यथाःकर्तव्यं जिनवन्दनं विधिपरैर्हर्षोल्लसन्मानसैः, सच्चारित्रविभूषिताः प्रतिदिनं सेव्याः सदा साधवः । श्रोतव्यं च दिने दिने जिनवचो मिथ्यात्वनिर्णाशनं, दानादौ व्रतपालने च सततं कार्या रतिः श्रावकैः ॥३९॥ किञ्चयद्भक्तिः सर्वज्ञे, यद्यत्नस्तत्पणीतसिद्धान्ते । यत्पूजनं यतीनां, फलमेतज्जीवितव्यस्य
૪ના या धर्मदेशना पञ्चेन्द्रियविषयसुखपिपासां शमयितुमनेकैर्भव्यैः पीता । एवं जङ्गमतीर्थरूपेण चन्द्रकेवलिना भूतलेऽति विहृत्याऽनेके भव्यजीवाः प्रतिबोधितास्तथाऽऽबालवृद्धेभ्योऽमिताऽगम्याऽगोचरसिद्धान्तभावाः प्रदर्शिताः । एवं विहारं कुर्वस्तस्य कियदिनानन्तरं सिद्धाचलतीर्थे शुभागमनं बभूव । अत्र तीर्थे
|| ३०५ ||