________________
चन्द्रराजचरित्रम् - अष्टाविंशः परिच्छेदः
चन्द्रनृपदीक्षाग्रहणम् पुराऽपि तस्य नरत्वप्राप्त्युपकारोऽभवत्, पुनर्ज्ञानेनाऽज्ञायि यदनेनैव तीर्थेनान्ते मे सिद्धिगमनं भविष्यति । अस्मिन्स्थानेऽनेक-मुनीनां सिद्धपदप्राप्तिरस्य स्मरणमात्रेण प्राणिनां कर्मच्छेदश्चापि भवतीति जानता तेनाऽत्र महातीर्थे मासिकी संलेखना कृता । राजर्षिणा चन्द्रेण सर्व संमील्य सहस्रसंवत्सरान्यावद्दीक्षापर्यायं वर्षाणां त्रिंशत्सहस्रमायुर्भुक्त्वा चान्ते योगनिरोधेन चतुर्दशायोगिगुणस्थाने पञ्चहस्वाक्षरोच्चारणपरिमाणकालं स्थित्वा वेदनीयायुर्नामगोत्राणां चतुर्णामघातिकर्मणामपि सर्वथा क्षयो विहितः । अतोऽनन्तवीर्योऽखिन्नोऽसावतीन्द्रियत्वाक्षयत्वयोः प्राप्त्यनन्तरमूर्ध्वगमनं कृत्वा सिद्धिस्थानं प्राप | सर्वार्थसिद्धविमानस्योपरि द्वादशयोजनदूरस्थेषत्प्रागभारानामशिलायामेकयोजनमिते लोकान्ते लोकान्तं स्पृष्ट्वा स स्थितः । ततः सुमतिशिवकुमारौ मुनी गुणावली प्रेमला च साध्व्यावेते सर्वेऽपि केवलज्ञानं प्राप्य सिद्धस्थानं गताः। पुनः शिवमालाप्रभृतिसाध्व्यः सर्वार्थसिद्धविमानमीयुस्तास्ततश्च्युत्वा महाविदेहक्षेत्रे मनुष्यभवेन सिद्धिस्थानं यास्यन्ति । एवं तैः समस्तै वैरात्मनः कल्याणं कृतम्, एतत्सर्वं सदाचारस्य शुद्धचारित्रस्य चैव प्रताप आसीत् । अत उक्तममिथ्या वक्तुं नहि जानामि, सारं किञ्चित्तय कथयामि । गुप्तित्रितयं समितीः पञ्च, यावज्जीवं खलु मा मुञ्च ॥४१॥ अपि चतच्चारित्रं न किं सेवे ? यत्सेवावशगः पुमान् । हीनवंशोऽपि संसेव्यः, सुरासुरनरोत्तमैः
૪૨ ।। ३०६ ।।