________________
चन्द्रराजचरित्रम् - अष्टाविंशः परिच्छेदः
तज्जयः सम्पदां मार्गो, येनेष्टं तेन गम्यते
तथा स परीषहान् समभावेन सहमानस्तेनैवात्मगुणपुष्टिं शिवप्राप्तिं चाऽमंस्त । यतोऽग्निज्वालाज्वलितहिरण्यवत्परीषहोपसर्गादेः सहनेनाऽऽत्मनः शुद्धस्वरूपमाविर्भवति । इतोऽन्यद्यथा यथाऽऽत्मनि शान्तरसप्रसारो भवति - आत्मप्रदेशस्तेनाऽभिषिच्यते, तथा तथाऽऽत्मना ताम्ररूपं परित्यज्य सत्यस्वर्णरूपं प्राप्यते, तेन परमोत्कृष्टशुद्धस्वरूपस्य चाऽऽत्मनोऽनुभवो जायते । एवं विदन् स ज्ञानादिगुणैर्नित्यानन्दे स्थितत्वात्परमानन्दस्याऽनुभवं करोति स्म, एवं भृशमात्मधर्ममाचरन् राजर्षिश्चन्द्रः क्षपकश्रेण्याः सम्मुखो भवितुं लग्नस्तेनानादिकालतो जीववशवर्तिकरणैकचित्तं मोहराजस्य सैन्यं भग्नम्, तस्य मुखं संगोप्य पलायितव्यमभूत् । ततोऽसौ चतुर्णां घनघातिकर्मणां नाशकरणे लीनः सन्नतिस्निग्धैकादशे गुणस्थाने पादमनिधाय क्षीणमोहनामके द्वादशे सुगुणस्थाने गतवान् । तत्र चतुर्णां घनघातिकर्मणां सर्वथा क्षये कृते त्वरितमेव त्रयोदशं गुणस्थानं प्राप्य तेन चन्द्रराजर्षिणा शाश्वतिकसकलसुखनिदानं लोकालोकप्रकाशकं केवलज्ञानं केवलदर्शनं च लेभे ।
उक्तमपि
चन्द्रनृपदीक्षाग्रहणम् રૂા
ज्ञानं स्यात्कुमतान्धकारतरणिर्ज्ञानं जगल्लोचनं, ज्ञानं नीतितरङ्गिणी कुलगिरिर्ज्ञानं कषायापहम् । ज्ञानं निर्वृतिवश्यमन्त्रममलं ज्ञानं मनः पावनं, ज्ञानं स्वर्गगतिप्रयाणपटहं ज्ञानं निदानं श्रियः
॥३८॥
ततस्तदात्मनो ज्ञानादिगुणानामाच्छादकं पुद्गलकार्यरूपं
।। ३०४ ।।