________________
चन्द्रराजचरित्रम् - षड्विंशः परिच्छेदः
चन्द्रशीलपरीक्षा
|
|
देवश्चन्द्रराजं नत्वा स्वस्थानं गतः । इतो राजा चन्द्रोऽप्युक्तघटनां विचारयन्निजोत्तारके परावर्तत, परेद्यवि सर्वाऽनुमत्या स पोतनपुरतः प्रतस्थे, पथि साधिताऽनेकनृपेण तेन सुन्दरीणां सप्तशती परिणीता। कतिभिर्वासरैराभापुर्यासन्नमागतस्य तस्यागमनोदन्तं निशम्य गुणावली सुमतिसचिवः प्रजाजनाश्च मुमुदिरेतमाम् । तैरखिलैर्महामहेन सम्मुखमागत्य चन्द्रनृपो नगरे प्रवेशितः, राज्ञा चन्द्रेणाऽपि स्वप्रजादिराज्यवर्गीयाः सम्मानिताः । नगरे प्रविशन्तं चन्द्रं वीक्षितुं जनवृन्दं महासागरवदुच्छलति स्म । प्रतिगृहं मङ्गलं मानितम्, सर्वेषां स्वान्ते प्रेमप्रवाहः प्रवहति स्म, तदागमेन सर्वेषां शरीरे प्राणा आगता इवेति जाने । राज्ञश्चन्द्रस्य नगरप्रवेशदृश्यं रमणीयतरमासीद्यथा-अनेकहस्तिरथपदातिस्तोमो ध्वजधारकाचाग्रतो गच्छन्त आसन्, ततो वनितानां सप्तशती रथोपविष्टा गच्छति स्म, ततो मार्दङ्गिकवैणविकादिजनानां वृन्दम्, सर्वमध्ये भूपचन्द्रो गजेन्द्रारूढो याचकेभ्यो मुक्तहस्तेन दानं ददानो याति । तदानीं नागरिकैः कुत्रचिन्मुक्ताफलवृष्टिः, क्वचित्पुष्पवर्षा कृता । क्वापि तरुण्यो रमण्यो मधुरालापेन स्वागताशीर्वादमयं गानं गायन्ति स्म । राजा चन्द्रोऽपि शिरो नामं नामं सर्वेषां स्वागताऽभिवादनानामुत्तरं ददद् गच्छति स्म । तस्मिन् क्षणे स यत्रैव दृष्टिक्षेपेण दृष्टवांस्तत्रैवाऽमृतवर्षणमिवाऽजायत । इत्थं शनैः शनैर्मार्गमतिक्रम्य राजा चन्द्रः स्वप्रासादपार्थमाससाद । तत्र द्विपेन्द्रादवतीर्य निजजायाभिः सह सवर्धापनं सोऽन्तःपुरं प्रविवेश । तदा स्वपदपतितां गुणावलीं तेनाऽतिप्रेम्णोत्थाप्य हृदयेनाऽऽश्लिष्टा । ततस्सा राज्ञीनां सप्तशती गुणावल्याश्चरणौ स्पृष्ट्वाऽतिस्नेहेन मिथोऽमिलत् । भूभर्त्रा
।। २६६ ।।