________________
चन्द्रराजचरित्रम् - षड्विंशः परिच्छेदः
चन्द्रशीलपरीक्षा कामिनी तु भवाब्धौ निमज्जयितुं शृङ्खला शिला वा वर्तते, अतो ये मानवा विवाहितामपि विजहति ते शावतिकमनुत्तरं मोक्षसुखमनुभवन्ति । परस्त्रीपाषाणतरिभिरनेके पुरुषाः संसारपारावारे तथा निमज्जिता यथा ते पुनः कर्हिचिदपि स्वोत्तमाङ्गमुच्चैर्विधातुं न शेकुः । पररमणीरमणेन ललिताङ्गकुमारस्य दुःसहं जीवितापहारकं दुःखं सोढव्यमभूत् । नाऽहं तथाऽज्ञो यज्ज्ञात्वाऽऽपदो निमन्त्रयेयम् । त्वं मां स्त्रीवधपातकाद् भीषयसे, परमहमनेन भयकारणेन स्वचारित्र्यं नैव नाशयिष्यामि ।
यतः
स्वाधीनेऽपि कलत्रे, कश्चित्परदारलम्पटो भवति । संपूर्णेऽपि तडागे, काकः कुम्भोदकं पिबति ॥१७॥
अस्मिञ्जगति ज्वलनदग्धस्य त्वस्मिन्नेव भवे कष्टानुभवो भवति, परं कामाग्नौ प्लुष्टानां तु जन्मान्तरेऽपि दुःखं भोक्तव्यं बोभवीति । त्वं मे धर्मजामिर्जननीतुल्या वाऽसि, सुकुलोद्भवायास्तवेदृशी वार्तापि शोभा नाऽऽवहति । इत्थंकारं क्षितिपस्य चन्द्रस्याऽतुलं दृढत्वं दृष्ट्वा प्रसेदिवान् स देवो द्राग विद्याधरीरूपं विहाय स्वरूपं च प्रकाश्य चन्द्रस्योपरि पुष्पवृष्टिं विदधानो निजगाद-राजन् ! धन्योऽसि, तव पितरौ च श्लाघ्यतमौ स्तः, याभ्यां त्वादृग नृरत्नो जनितोऽस्ति । मघोना यादृग भववर्णनं कृतमासीत्, यथार्थतस्तथैव भवान् वर्तते । मया भवत्परीक्षार्थमेवैष सर्वोऽपि प्रपञ्चः कृतः किन्तु भवांस्तत्र न पतितः । अथ तव सदाचारित्वे मे दृढप्रत्ययो जातः, इत्याभाष्य सद्वरं च दत्त्वा स
|| २६५ ।।