________________
चन्द्रराजचरित्रम् - षड्विंशः परिच्छेदः
चन्द्रशीलपरीक्षा
यतःअयशः प्राप्यते येन, येन चापगतिर्भवेत् । स्वर्गाच्च भ्रश्यते येन, तत्कर्म न समाचरेत् ॥१५॥
भूपतेश्चन्द्रस्येदं भाषितमाकर्ण्य सकपटरोषया विद्याधर्या प्रोक्तम्-राजन् ! मम प्रार्थनां नाङ्गीकरिष्यसि चेत्त्वां सत्क्षत्रियं नाऽहं मंस्ये | निराशायां मय्यहं प्राणांस्त्यक्त्वा तव शिरसि स्त्रीहत्यापातकं दास्यामि, अतो यथाभवेत्तथा मे प्रार्थना स्वीक्रियताम्। चन्द्रेण व्याहृतम्-अयि कामिनि ! स्त्रीहत्यापातकादपि सदाचारच्युतिपातकोऽतिरिच्यते । पश्य, पुरा रामरामां सीतां कामयमानो रावणः स्वराज्यप्राणादिभ्यो भ्रष्टोऽभूत् । पाञ्चाल्या अपहरणेन पद्मोत्तरराजस्य स्वराज्यभ्रंशादन्यः को लाभो जातः? अहिल्यारतस्येन्द्रस्य गौतमशापाच्छरीरे भगरन्ध्रसहस्रं बभूव । हिमाचलस्य पुत्र्यां पार्वत्यामासक्तस्य भस्माङ्गदस्य भस्मभवनमभवत्, चैवं द्रौपदीरतकीचकोऽपि भीमेन गृहपट्टे प्रवेशितः। इत्थं परदारपरायणा देवा मानवा वा, सर्वे सर्वैर्लोकः कलङ्किता अपमानिताश्च बभूवुः । मत्समक्षे तादृशो नैकोऽपि दृष्टान्तो वर्तते, यत्र परस्त्रीगमनात्कोऽपि सुखभाग भवेत् । एतविपरीततया येनाऽखण्डब्रह्मचारिणा भूयते, उत निजपाणिगृहीतां विहायाऽन्याः स्त्रियो जननीभगिनीवद् बुध्यन्ते स संसारे सुखी बोभूयते । अत उक्तम्परिहरत पराङ्गनाप्रसङ्गं, बत यदि जीवितमस्ति वल्लभं वः। हर हर ! हरिणीदृशो निमित्तं, दश दशकन्धरमौलयो लुठति ॥१६॥
|| २६४ ॥