________________
चन्द्रराजचरित्रम् - षड्विंशः परिच्छेदः
चन्द्रशीलपरीक्षा विधत्ते । भवदाकारेङ्गितैरेव सत्क्षत्रजत्वं ज्ञायते, यतो मया बहुलाशाविधासयुक्ता भवत इयं तुच्छप्रार्थना कृता । तदा राज्ञा चन्द्रेण निगदितम्- अयि सुन्दरि ! एवं गह्या प्रार्थनां कथं कुरुषे ? सदाचारिणो धीराः क्षत्रियाः परस्त्रीलम्पटा न भवन्ति । यतःकान्ताकटाक्षविशिखा न लुनन्ति यस्य, चित्तं न निर्दहति कोपकृशानुतापः । कर्षन्ति भूरिविषयांश्च न लोभपाशा, लोकत्रयं जयति कृत्स्नमिदं स धीरः
॥९३॥ या स्त्री परपुरुषं कामयेत, तद्दर्शनेनाऽपि महापातकं लगति। पुनः स्वादुतरोऽपि पदार्थो जुष्टश्चेत्तं सत्पुरुषो नोपादत्ते । परजुष्टं तु काकमृगदंशमातङ्गादय एवाऽदन्ति, सिंहास्तु स्वहस्तहतहस्तिनमेवाऽऽहरन्ति । उक्तं चमदसिक्तमुखैर्मृगाधिपः, करिभिर्वर्तयते स्वयं हतैः । लघयन्खलु तेजसा जग-ल महानिच्छति भूतिमन्यतः ॥१४॥
तस्माद, अयि वामलोचने ! नैतादृगनुचितोक्तिस्ते निजास्येन वक्तव्या । त्वत्कथनात्त्वत्पतिमन्विष्य त्वया संगमयितुमर्होऽप्यहं तावकीनामिमां कुप्रार्थनां कथमप्यङ्गीकर्तुं न शक्नुयाम् । परदारसङ्गमस्त्वकुलीनमानवानां कृतिरस्ति, नो कुलीनानाम् । उत्तमकुलोत्पन्ना जनास्तु प्राणाऽत्ययेऽपि पापाऽऽचरणे हस्तक्षेपं न कुर्वते । यतो लोकद्वयविरुद्धाचारिणां कुत्रापि सुगतिर्न जायते।
|| २६३ ।।