________________
चन्द्रराजचरित्रम् - षड्विंशः परिच्छेदः
चन्द्रशीलपरीक्षा कियद्दूरे गते स तत्रैवाऽऽयातो, यत्र निकुञ्ज समुपविष्टा सा विद्याधरी विलपन्त्यासीत् । कामस्य रतिप्रतिमं तद्रूपमनर्घवस्त्राऽभूषणैर्विभूषितं तद्विग्रहं च विलोक्य विस्मितमानसेन तेन सा पृष्टा- अयि सुन्दरि ! त्वं निशीथेऽत्रैकाकिनी केन दुःखेन रोरुद्यमानाऽसि ? तव यद् दुःखं तन्निःसंकोचं ब्रूहि, अहं त्वा यथाशक्ति तस्मान्मोक्तुं यतिष्ये । एतन्निशम्य निजकटाक्षाऽऽशुगैर्भूधवं चन्द्रं मर्माहतं कर्तुमीहमानया तया प्रेमगर्भिवचोभिर्व्याहृतम्-हे आभानरेश! विद्याधरवधूटीं मां जानीहि, निजवृत्तान्तकथने हिणीयमानाया अपि मे दुःखवशाद् भवते वक्तव्यमेव भवति । मम धवो मया साधु कलिं कृत्वाऽस्यां दुःस्थितौ मां मुक्त्वा कुत्रचिद् गतोऽस्ति, तेन तथाऽकार्यं कृतं यत्पुरुषेषु शोभा न विदधाति । अहमनाथाऽबलाऽस्मि, अथ मे जीवनतरिः कथं दुःखोदधितटगा भाविनीति न मया ज्ञायते । एतच्चिन्तयैव व्याकुलीभूय रोदिमि, परमधुना मत्सौभाग्येन भवानत्राऽऽगतोऽस्ति। सहैव भवताऽपि मद्दुःखदूरीकरणस्येच्छा प्रकटिताऽतो भवन्तं प्रार्थयामि, यद् भवान् मां पत्नीत्वेनोरीकृत्य मे दुःखं भनक्तु । अनेन जगति भवत्प्रतिष्ठा प्रेधिष्यते । चेद् भवान् राजन्यमन्योऽस्ति, तर्हि मदीयेयं प्रार्थना नाऽमान्या कार्या यतः क्षत्रियाः शरणागतान जात्वपि न जहति। उक्तं चक्षतात्किल त्रायत इत्युदयः, क्षत्रस्य शब्दो भुवनेषु रूढः । राज्येन किं तद्विपरीतवृत्तेः, प्राणैरुपक्रोशमलीमसैर्या ॥१२॥
प्रार्थनाभगस्य महत्प्रायश्चित्तं भवतश्छन्नं न विद्यते । परं तादृशो वीरपुरुषो विरल एव जायते, यः परकीयप्रार्थनाभङ्गं न
|| २६२ ।।