________________
चन्द्रराजचरित्रम् - पञ्चविंशः परिच्छेदः
नैव देयम् ।
यतः
न सा दीक्षा न सा भिक्षा, न तद्दानं न तत्तपः । न तद् ध्यानं न तन्मौनं, दया यत्र न विद्यते
विमलापुरीतश्चन्द्रराजस्य प्रस्थानम्
॥८९॥
इत्थं तां शिक्षयतोस्तयोस्तन्मात्रा निजाश्रुधारया प्रेमलाप्लावितेव पित्रोर्वियोगविखिन्नां तां परितः परिवृताः सुसख्योऽप्यासन्, ताभ्यः पृथग् भवने तस्या दुःसहं दुःखमजनि परं तदानीं ताभिः प्रेमपूर्णवचोभिस्सा शमिता । तदा सुरगणोऽपि तद्दृश्यावलोकनाय वियति स्तम्भित इव बभूव । मुहुः सर्वैः समं मिलित्वा सजललोचनं प्रस्थानं सा ययाचे ततः वश्रवा चन्द्रनिटिले चन्दनं चर्चयित्वा तत्करे दीनारान्वितं श्रीफलं दत्तम् ।
अथ राज्ञश्चन्द्रस्यादेशेन शुभमुहूर्ते तत्सैन्यमाभापुरीं प्रस्थितम् । तदनन्तरं सपरिकरस्य मध्येनगरं भूत्वा पुरो वाद्यमानवाद्यस्य व्रजतस्तस्योपरि चतुष्पथे नागरिकैर्मुक्ताफलवृष्टिः कृता । तरुण्यो माङ्गलिकं गायनं गायं गायं तयोर्वधूवरयोराशिषो ददाना आसन् । एवं पन्थानमतिक्रामन्तः सर्वे सिद्धाचलतीर्थसमीपं समीयुः । चन्द्रावनिजानिनाधस्तादेव तन्महातीर्थं नमस्कृत्य स्तुतिश्चक्रे । ततः स्वश्वशुरादिकं विमलापुरीं प्रति वालयित्वा ततस्तेन त्वरया प्रस्थानं कृतम् । शिवकुमारस्य नटमण्डल्यद्यावधि तेन सहैवाऽऽसीदतो मार्गे यत्र यत्राऽऽवासोऽभूत्तत्र तत्र तैर्नटैर्नवनवनाटकैः सपरिकरस्य चन्द्रस्य मनोरञ्जनमकारि । इत्थमनेकं विषयं विलोकयन्, अनेकान्माण्डलिकराजान् वशीकुर्वन्, सैनिकानग्रे निःसारयन्, बह्वी राजकन्याः परिणयन् स क्रमशः पोतनपुरमाप । तत्र नगरान्नातिदूरे
|| २५६ ।।