________________
चन्द्रराजचरित्रम् - पञ्चविंशः परिच्छेदः
|
I
विमलापुरीतश्चन्द्रराजस्य प्रस्थानम् जाताऽस्ति । इयमद्याऽवध्यस्माभी रक्षिता, परमद्य सर्वोत्कृष्टकन्याधनं सहर्षेण भवत्करे समर्पयामि । अतो भवतेयं सुरक्षणीया, अस्याः सम्मानवर्धनं भवद्धस्ते विद्यते । इयमिदानीमनभिज्ञाऽस्ति, एनया कदापि गृहाद् बहिश्चरणमपि न रक्षितम्, पित्रोर्लाल्यत्वाल्लालनपालनयोरेवैधिताऽस्ति, अतोऽस्याश्चेच्च्युतिरपि भवेत्तर्हि क्षन्तव्या भवता । अस्या गमनमनिच्छतापि मया भवदनुगमनादेनां रोद्धुं कथं शक्यते ? । भवता स्वराज्यस्य समुचितं प्रबन्धं कृत्वाऽरमेवागन्तव्यम्, यतोऽत्र यत्किंचिन्मामकमस्ति तदपि सर्वं प्रान्ते भावत्कमेव भविष्यति । ततस्ताभ्यां पुत्रीं प्रस्थापयद्भ्यां सा कथिता - अयि प्रियवत्से ! त्वं खशुरालयं लब्ध्वा जनयित्रोरास्यमुज्ज्वलयेथाः । स्वसपत्नीमग्रजां बुद्ध्वा सम्मानयेः । तव श्वशुरयोरभावात्स्वामिनमेव सर्वस्वं मत्वा सदा सोऽनुरञ्जनीयः । कदाचिदनवधानतयाऽपि यत्तदर्थं कलिर्नैव कार्यः ।
यथोक्तम्
शुश्रूषस्य गुरून् कुरु प्रियसखीवृत्तिं सपत्नीजने, भर्तुर्विप्रकृतापि रोषणतया मा स्म प्रतीपं गमः । भूयिष्ठं भय दक्षिणा परिजने भोग्येष्यनुत्सेकिनी, यान्त्येवं गृहिणीपदं युवतयो यामाः कुलस्याधयः
॥८८॥ तव चातुर्यं जानन्नप्यहं स्वकर्तव्यं ज्ञात्वा त्वां ज्ञापयितुमिच्छामि, यन्मर्मभिद्यापद्यपि देवगुरुधर्मप्रमादो न विधेयः । एषु विषयेषु स्तोकमप्यौदास्यं न दर्शनीयम्, दानपुण्यादिसम्बन्धे तवाऽधिककथनस्यावश्यकतैव नाऽस्ति तत्तु त्वदाह्निकं कर्म वर्तते । पुनरेतदपि स्मरणीयं यत्प्राणिमात्रायापि कदापि कष्टं
/
1
|| २५८ ||