________________
चन्द्रराजचरित्रम् - पञ्चविंशः परिच्छेदः
विमलापुरीतश्चन्द्रराजस्य प्रस्थानम्
मञ्जूषाऽतो मेऽतिप्रियसुताऽसि । तव भर्ताऽऽभापुरीगमनाय भृशमुत्सुको भवन्नस्ति, मया वारितगमोऽपि स न मन्यते । अथ त्वं तत्र गन्तुमत्र स्थातुं वेच्छसि तद् ब्रूहि । प्रेमलयोक्तम्- तात ! छायेव पतिवर्त्मगा सदाचारिणी प्रियेति तेन सहैव गमिष्यामि । उक्तमपि
भक्तिः प्रेयसि संश्रितेषु करुणा अश्रूषु नम्रं शिरः, प्रीतिर्यातृषु गौरवं गुरुजने क्षान्तिः कृतागस्यपि । अम्लाना कुलयोषितां व्रतविधिः सोऽयं विधेयः पुनमद्भर्तुर्दयिता इति प्रियसखीबुद्धिः सपत्नीष्यपि
॥८७॥
सकृत्स्खलिता परमधुना नो स्खलिष्यामि, विदिततनयाशया तज्जननी सखेदं वक्तुं लग्ना - जनयित्र्या दुहितृजननादधिकं दुःखमन्यन्नाऽस्ति । परमतिविचक्षणाऽपि तनया सत्यपि मातृस्नेहे शुरसद्मगमनं विना स्थातुं नार्हतीति बहुकन्यकोऽपि तातः कौटुम्बिकत्वं न व्रजति । पुनः पत्युः प्रभूतार्थान्विता अपि दुहितरः पितुर्गृहाद्यत्किञ्चिल्लातुमेवेच्छन्ति । ताः सदा भर्तृकुलपक्षपातमेव कुर्वते, नो पितृकुलस्य, अतः कन्यावृन्दादेकः पुत्र एव वरः । तेन तु तत्कुलमलं भवति तयेत्थं बहुविकल्पसङ्कल्पौ कृतौ, परं ताभ्यां को लाभः ? पुत्री परकीयेति परिणामात्सा कदाचित्प्रेषितव्यैव भवेदिति ध्यात्वाऽन्ते तया मात्रा राज्ञा मकरध्वजेन च पुत्री प्रस्थानवस्तु प्रगुणितम् । ताभ्यां प्रेमलायै दासदासीवस्त्राभूषणशय्यावाहनादिवस्तुपुत्रं दातुं काऽपि त्रुटिर्न कृता । ततो राजा चन्द्रोऽपि प्रस्थातुं प्रोद्यतः, ततः प्रेमलापितृभ्यामपि तां रम्यरथे समुपवेश्य चन्द्रः प्रोक्तः- भोः कुमार ! मदीयेयं तनया सदातनीना भावत्का
।। २५७ ।।