________________
चन्द्रराजचरित्रम् - पञ्चविंशः परिच्छेदः
विमलापुरीतश्चन्द्रराजस्य प्रस्थानम्
गाद - आभापुरीतो हूतिरागतास्ति, ततस्तत्र गमनमावश्यकं विद्यते। तत्रत्यं कार्यजातमपि नितरां संभालनीयमस्ति । इदानीं निःस्वामित्वादाभापुरी शून्या जायतेतमां, प्रजाजनोऽपि दुःखी बोभूयते, ततो नृपस्य नृपत्वं निरर्थकम् |
उक्तञ्च
प्रजा न रञ्जयेद्यस्तु, राजा रक्षादिभिर्गुणैः । अजागलस्तनस्येव, तस्य जन्म निरर्थकम्
॥८६॥
भवद्दत्तसुखाय मे भवन्तं मुक्त्वा तत्र गमनमपि नो रोचते, यतो मयि भवतातीवोपकृतमस्ति भवत्सौजन्यमहमत्र जीवने कथमपि नैव विस्मरिष्यामि । अथ चेद् भवदाज्ञा स्यात्तदा तत्र गत्वा निजराज्यकार्यप्रेक्षां कुर्याम् । परं भवता पत्रं लेखनीयम्, नाहं विस्मरणीयः, मयि चैवमेव स्नेहभावो रक्षितव्यः । भूपतेश्चन्द्रस्येदं विनयवचनमाकर्ण्य, मकरध्वजेन गमननिषेधवचसा बहुबोधित - स्यापि तस्य यदा विचारवैपरीत्यं न जातं तदा पुनर्मकरध्वजेनोक्तम्भोः कुमार ! विकृतः करी कथमपि करे नाऽऽयाति, कृषीवलान् बद्ध्वा कृषिर्न कार्यते, मार्गिताऽऽभूषणानि शखन्निजपार्श्वे न तिष्ठन्ति, प्राघूर्णकैर्गृहकुटुम्बवृद्धिर्न भवति, प्रवासिनां च प्रीतिश्चिरस्थायिनी न भवति, अतो भवता सहर्षं गन्तुं शक्यते । इतो गतेऽपि भवान् मम स्वान्तात्कदापि न गन्तुमर्हतीति मयि विश्वासः कर्तव्यः । इत्थं लब्धादेशस्य चन्द्रस्य हृदि परा मुदजनि । तदैव राज्ञा मकरध्वजेन प्रस्थानसामग्रीं विधातुं स्वसेवका आदिष्टाः । क्षितीशेन I चन्द्रेणाऽपि निजसामन्तेभ्यः सज्जितुमाज्ञा दत्ता । अथ नृपतिना मकरध्वजेनाकारिता प्रेमला प्रोक्ता - वत्से ! त्वं साक्षाद् गुण
।। २५६ ।।