________________
चन्द्रराजचरित्रम् - पञ्चविंशः परिच्छेदः
विमलापुरीतश्चन्द्रराजस्य प्रस्थानम्
यथा
अद्यापि तत्प्रचलकुण्डलमृष्टगण्डं, वक्त्रं स्मरामि विपरीतरताभियोगे । आन्दोलन श्रमजलस्फुटसान्द्रबिन्दु - मुक्ताफलप्रकरविच्छुरितं प्रियायाः
॥८५॥
सुखेनाऽत्र निवसन्नहमसहायाया गुणावल्याः संकटमयदिनानि कथं निर्गच्छन्ति ? इत्यपि न जानामि, अतः सपदि तत्रेत्य मया स्वराज्यालोचनं कर्तव्यम्, सा च सुखिनी कर्तव्या । अनेन विचारेणोद्विग्नचेतस्कं चन्द्रं वीक्ष्य प्रेमला प्रोचे - प्रियतम ! अद्येत्थमुदासीनः कथं भवन्नस्ति ? भवतः स्वदेशस्य स्मृतिः समायाता, उत भगिन्या गुणावल्याः ? किमयं सौराष्ट्रनीवृद् भवते न रोचते ? किमु मत्तो भवत्सेवायां काचिन्न्यूनता जाताऽस्ति ? हे प्राणवल्लभ ! चेद् गुणावल्याः स्मरणेन विमना जातो भवेत्तर्हि साऽत्राऽऽकार्यतामहं तस्याः किङ्करी भूत्वा तदीयां सर्वामाज्ञां शिरोधार्यां करिष्यामि । मज्जनकेनाऽपि निजराज्यार्धं भवतो वितीर्णमस्ति । एतत्त्यक्त्वाऽऽभापुरीगमनं किमुचितं स्यात् ? चन्द्रराजेनाभ्यधायि- प्रिये ! साम्प्रतं मदीयाभापुरी शून्या जायमानाऽस्ति । तत्राऽराजकत्वाद् वीरमतीपराभूताः पार्श्ववर्तिनो राजानोऽवसरं प्राप्योपद्रवन्ति । ततः पत्रमप्यागतमित्यधुना तत्र गमनं विना कार्यं न निरियात् । प्रेमला चतुररमणीत्वाद् राज्ञश्चन्द्रस्याऽनेन कथनेन तूर्णमेव ज्ञातवती, यदयमिदानीं तत्र गमनादृते न स्थातुं शक्नोति, अतस्तया गमननिरोधो न कृतः । राजा चन्द्रस्तां बोधयित्वा तत्तातासन्नमेत्य तस्मै सर्वमुदन्तं विज्ञापयन्निज
।। २५५ ।।