________________
चन्द्रराजचरित्रम् - पञ्चविंशः परिच्छेदः विमलापुरीतश्चन्द्रराजस्य प्रस्थानम् विचिन्तयन्त्यासीत्तदैवाकस्मात्तत्रैकः शुकः समीयिवान्, तेन च नृभाषयोक्तम्- अयि सुन्दरि ! त्वं केनाभिभूतासि ? त्वमियत्युदासीना कथं लक्ष्यसे ? अहं दिव्यः खगोऽस्मि, चेत्त्वं मे नैजं दुःखं निवेदयेस्तहं निष्पराक्रमोऽपि तन्निवारणोपायमवश्यं कुर्याम्। यतःउपायेन हि यच्छक्यं, न तच्छक्यं पराक्रमैः । वने सिंहो मदोन्मत्तः, शशकेन निपातितः ૧૮૪ની
शुकोक्तं निशम्य चमत्कृतचित्तया तयाऽभाणि- हे विहगराज ! विदेशवर्तिनः प्रियस्य वियोगेनोदासीनाऽस्मि। प्रभूतदुःखस्येयं वार्ता विद्यते, यत्कश्चिदेवंभूतो जनो न दृश्यते, यो मामकीनं वाचिकं तत्र नयेत, तत्रत्यं चात्राऽऽनयेत, ममान्तरिक कष्टं केवलं सर्वज्ञ एव जानाति । तदा कीरेण भाषितम्- स्वसः ! खेदं मा गमः, त्वमेकं पत्रं लिखित्वा देहि, तदहं त्वद्भर्तुरन्तिके नेष्यामि। ततस्तया तूर्णं पत्रमेकं लिखितम्, परं लेखनावसरे निःसृताभिरश्रुधाराभिर्निखिलं पत्रं क्लिन्नमभूत, तादृशमेव पत्रं मुद्रितं कृत्वा कीरायार्पितम् । सोऽपि तन्नीत्वा तत उड्डीय स्तोकेनैव कालेन विमलापुरीमागत्य राज्ञश्चन्द्रस्य करे ददिवान् । राजा चन्द्रोऽप्यौत्सुक्येन तदुन्मुद्रयित्वा पेठिवान् । परं बाष्पार्द्रतया तत्रत्यानि सर्वाण्यक्षराणि नष्टप्रायाण्यासन, तथापि यथातथा पठित्वा गुणावल्या अदः पत्रं द्रागेवाभापुर्यागमनाय तयाऽनुरोधः कृत इत्येतावन्मात्रमेव सोऽबोधि । पत्रस्यामुमाशयं विदित्वा विचारपतितः स चेतस्यचिन्तयत् ।
|| २५४ ॥