________________
चन्द्रराजचरित्रम् - पञ्चविंशः परिच्छेदः
विमलापुरीतश्चन्द्रराजस्य प्रस्थानम्
मदर्थमेवं प्रयतेत, पुरुषाणां पूर्वा पाणिगृहीती प्रियतरा भवतीति केषाञ्चिन्मतं विद्यते, केषाञ्चित्तु नूत्नायामेव पत्न्यां प्रेमाधिक्यं प्रवर्तत इति मतं वर्तते । तत्रोभयोर्मतयोः परमेव मतं मान्यम्, यतः षोडशकलापूर्णस्य पूर्णिमाचन्द्रस्य दर्शनमनादृत्य द्वितीयाचन्द्रस्य दर्शनार्थं जना धावन्ति ।
|
उक्तमपि
प्रथमदिवसचन्द्रः सर्वलोकैकवन्द्यः, स च सकलकलाभिः पूर्णचन्द्रो न वन्द्यः । अतिपरिचयदोषात्कस्य नो मानहानि - नवनवगुणरागी प्रायशः सर्वलोकः
m
I
तथैव मे पतिदेवोऽपि प्रेमलाप्रेमपाशे पतितो लक्ष्यते । अहं श्रूवचनमागतेति मयि तस्य तादृशः स्नेहो न, यतो यस्य यत्र ताम्रचूडत्वमापतितम्, तत्र तस्मा आगमनमपि कथं रोचेत ? परं तेन विना मच्छरीरशोषो बोभूयते, अश्रुक्लेदितवस्त्रेण मम सदैव यामिनी याति, तद्विरहानलेन मे देहो दह्यते, अस्याग्नेस्तदागमनेनैव प्रशान्तिः स्यात् ।
यतः
रात्रि दिवसायते हिमरुचिश्चण्डांशुल क्षायते, तारापङ्क्तिरपि प्रदीप्तवडवावह्निस्फुलिङ्गायते । धीरो दक्षिणमारुतोऽपि दहनज्वालावलीढायते, हा हा! चन्दनबिन्दुरद्य जलवत्संचारिरङ्गायते
મો
इत्यादिवार्तायास्तस्य किं ज्ञानं स्यात् ? । यदा गुणावल्येतद्
।। २५३ ।।