________________
चन्द्रराजचरित्रम् - चतुर्विशः परिच्छेदः । वीरमत्याः पर्यवसानम् सज्जितोऽस्मि । पूर्वत एवाऽहं जानन्नस्मि यत्त्वदागमनोद्देशो मद्दण्डदानादृतेऽन्यो न स्यात् । त्वद्गुणैरहं सुपरिचितो विद्ये, परमिदानीं तद्वर्णनं नोचितं मन्ये । यतःअविनीतः सुतो जातः, कथं न दहनात्मकः? । विनीतस्तु सुतो जातः, कथं न पुरुषोत्तमः? ॥८॥
अस्य जीवनस्य राज्यस्य च दुराशया भवती मिथ्याभिमाने नो पततु, जगति हास्यजनकं च कार्यं मा करोत्वियमेव मामकीनाऽभ्यर्थना | भूधवचन्द्रस्यैतद्वचः श्रुत्वा तन्मन्युस्ततोऽप्यधिकमैधिष्टेति क्रोधेद्धया तया चन्द्रे क्षिप्तोऽसिस्तत्कवचेऽपतत्, अतः सोऽक्षताङ्ग एवाऽस्थात्, परं स एव करवालस्तत उच्छल्य वीरमत्या वक्षःस्थलेऽलगत, येन मूर्छिता सा भूमौ निपपात। अत उक्तम्यः परस्य विषमं विचिन्तये- त्याप्नुयात्स कुमतिः स्वयं हि तत्। पूतना हरियधार्थमाययौ, प्राप सैव यधमात्मनस्ततः ॥८१॥
ततश्चन्द्रनृपपुण्यप्रभावेण देवशक्त्या च स खङ्गः परावृत्य पुनरुपचन्द्रमायातस्तेन सादरं स्वपार्वे खड्गो रक्षितः । खड्गाघातान्मूर्छितापि सा जीविताऽऽसीदिति नृपतिश्चन्द्रो विष्णुकुमारस्य मन्त्रिणो नमुचेश्च दृष्टान्तं चिन्तयित्वा दुर्जनाय दण्डदानमेवोचितमिति स्थिरीचकार । अतस्तेन तदानीं तस्यामनुकम्पाकरणमसाम्प्रतं मत्वा तच्चरणं गृहीत्वा नभसि भ्रामयित्वा यथा रजको वस्त्रं शिलायां पातयति तथैवैकस्यां शिलायां सा पातिता ।
|| २५० ।।