________________
चन्द्रराजचरित्रम् - चतुर्विंशः परिच्छेदः
वीरमत्याः पर्यवसानम्
भाषितमिति निशम्य प्रहृष्टेन भूजानिना चन्द्रेण विमलापुर्याः पथ्येव तत्संमुखीनेन भूत्वा तस्या रोधनमुचितमज्ञायि । तदर्थं तत्काल एव सर्वा सामग्री प्रगुणीकृता, वायुवेगानां हयानामेको गणोऽपि सज्जितः । पुनर्नृपश्चन्द्रः कवचकलितकलेवरः सशस्त्रः प्रगुणीभूयैकमश्वमारुह्य सांयुगीनैः सप्तसहस्राश्चवारैः सहाऽऽखेटमिषेण विमलापुरीतो निर्गतः । कियद्दूरे गते व्योमवर्त्मनाऽऽयान्ती वीरमत्यदृश्यत, तदातीव मन्युना तदीयाऽऽकृतिः कृशानुशिखे - वारुणासीत्परं तच्छोभनं मन्यमानेन धरेशेन चन्द्रेण चेतसि चिन्तितम्-मन्ये, मामियमाभापुर्यां नेतुं वाऽऽमन्त्रणायैवाऽऽयाति ।
I
वीरमत्याऽपि दूरादेव स्वाभिमुखमागच्छन्नृपश्चन्द्रोऽवलोकितस्ततस्तयोच्चैरम्बरादेवोक्तम्- अरे चन्द्र ! सम्यग् जातं, यत्त्वं सम्मुखमागतः, यतो मे कुत्रचिद् गवेषणायासोऽपि कर्तव्यो न भविष्यति । परमहं जाने, यत्त्वं कुक्कुटावस्थं निजातीतदिनं व्यस्मार्षीः । त्वं त्वदीयश्चशुरादिभिरप्यत्राऽऽगमनान्न निरुद्धः किम्? त्वमाभापुरीमाजिगमिषुरसि, किन्त्वेतावत्स्मरणीयं -पृष्ठस्थपटहवादनेनाप्यबिभ्यन्महाङ्गः सूर्पवादनेन किं क्वापि बिभेति ? अथ त्वं मदभिमुखं किं पश्यसि ? अहं त्वां जीवन्तं न त्यक्ष्यामि । त्वं स्वेष्टदेवं स्मर, मम समक्षमागच्छ, स्वखड्गपराक्रमं दर्शय । एवं तयोक्तेन चन्द्रेण सविनयं प्रत्युक्तम् - पूज्यमातः ! मयि रोषं मा कुरु, मया तु भवत्याः किञ्चिदपि नाऽपराद्धं, पुनर्न जाने केन कारणेन मे क्रुध्यसि ? मया सार्धं युद्धकरणं किं ते शोभां दास्यति ? इत्यपि विचारणीयम् । अहं तु त्वामेतदेव प्रार्थयामि, यत्त्वया साकं मां योद्धुं नोत्साहयतु, चेत्तथैव तवेच्छा तदा तदर्थमपि
I
।। २४६ ।।