________________
चन्द्रराजचरित्रम् - चतुर्विंशः परिच्छेदः वीरमत्याः पर्यवसानम् निमूढमानवः प्रतिबोधितोऽपि परकीयशिक्षां न मन्यते । यतःशक्यो वारयितुं जलेन हुतभुक् छत्रेण सूर्यातपो, नागेन्द्रो निशिताङ्कुशेन समदो दण्डेन गोगर्दभौ । व्याधिर्भेषजसङ्ग्रहैश्च विविधैर्मवप्रयोगैर्विषं, सर्वस्यौषधमस्ति शास्त्रविहितं मूर्खस्य नास्त्यौषधम् ॥८॥
यदा स मूर्यो निजाखिलशक्तिं परीक्ष्य हताशो जायते, तदैव तस्य स्वलाघवं दृश्यते। विमलापुर्यां गते द्रागेव तं पराजित्य जिघांसुः सा तत्र भावि तद्विपरीतं नाऽबोधि । चेद् भूधवस्य चन्द्रस्यानिष्टचिन्तनेन स्वविनाशं विद्यात, तदैतत्कार्यं कर्तुं कटिबद्धा न भवेत् । किन्तु भवितव्यताग्रे कस्यचित् किञ्चिदलं न चलति, तथैव नृणां भाग्यानुकूलमेव फलमप्युत्पद्यते । उक्तमपिपिता रत्नाकरो यस्य, लक्ष्मीर्यस्य सहोदरी । शङ्खो रोदिति भिक्षार्थी, फलं भाग्यानुसारतः ॥७९॥
___ यदा देवोक्तममत्वा वीरमती विमलापुरीं प्रति स्वैरं प्रस्थिता, तदैकेन सुभक्तेन सुरेणोपचन्द्रमेत्य प्रोक्तम्- नृपते ! मदीयां शिक्षामुल्लध्य वीरमती भवद्विनाशायात्रागच्छति, अतो भवता सावधानेन स्थातव्यम् । अहं प्रच्छन्नतया वृत्तान्तममुं निवेदयितुमायातोऽस्मि । यद्यप्युरुपुण्यवतो भवतः सा बालमपि वक्र कर्तुं न शक्ष्यति, तथापि मया भवते सूचनादानमुचितं ज्ञातम्, यतो भवानपि तस्याः संमुखकरणाय सज्जितस्तिष्ठेत् । देव
|| २४८ ।।