________________
चन्द्रराजचरित्रम् - चतुर्विंशः परिच्छेदः वीरमत्याः पर्यवसानम् पीत्या विषमपि शम्भु-भृत्युञ्जयतामवाप तत्कालम् ॥६॥
अत्राऽस्माकं सामर्थ्य न स्फुरति, यतस्तद्रक्षकाः सुरा मदपेक्षया बलिष्ठा वर्तन्ते । अतोऽन्यत्कार्यमादिशतु तत्सहर्ष कर्तुं पारयामः, परमेतद् भवितुं न पार्यते । मदनुमतं मान्यं चेत स्वात्मजस्योपरि दुर्भावं न रक्षेः, तस्मै चाभापुरीराज्यं समर्प्य तेन मिलित्वा तिष्ठे: । एतद्विपरीताचरणेन तवाऽप्यशुभेन भूयेत, दैवीयमनुमतिर्वीरमत्यै बहुलाभदायिन्यासीत्किन्तु विनाशकाले विपरीतबुद्धिः । यतःपौलस्त्यः कथमन्यदारहरणे दोषं न विज्ञातयानक्षैवापि युधिष्ठिरेण रमता ज्ञातो न दोषो नु किम्? । रामेणापि यने न हेमहरिणस्यासम्भयो लक्षितः, प्रत्यासन्नविपत्तिमूढमनसां प्रायो मतिः क्षीयते ॥७७॥
___ इति तदुक्तिं निशम्य सा ततोऽप्यधिकं क्रुद्धा जाता । तदा देवैः पुनर्बोधिताऽपि सा स्वदुराग्रहान्न विररामेति ते निजं निजं स्थानं जग्मुः । गतेषु तेषु वीरमत्या धीसखमाकार्य तस्मै सर्वो वृत्तान्तो निवेदितः, विमलापुरीगमनाय चात्माभिप्रायः प्रदर्शितः। तदा सचिवेनोक्तम्-सुखेन गच्छतु, नात्र मे निषेधः, भवत्याः पुनरागमनं यावदहं सर्व राज्यकार्य करिष्यामि । ततो भवत्या निश्चिन्तया तत्र यथेष्टं स्थेयम्, सचिवस्यानेन वचनेनाऽतिप्रसन्ना सा स्वान्ते तत्प्रशंसां कर्तुं लग्ना | पुनर्मन्त्रशक्त्याऽऽहूतैः समस्तदेवैः सह खड्गहस्ता व्योमवर्त्मना विमलापुरी प्रति सा प्रस्थिता, यतोऽभिमा
॥ २४७ ।।